प्रधानमन्त्रिणः मोदिनः सार्वजनिकजीवनस्य पञ्चविंशतिवर्षपूर्तौ धामिना काशीविश्वनाथमन्दिरे पूजार्चना कृता
उत्तरकाशी, ०७ अक्टोबरमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य सार्वजनिकजीवनस्य राष्ट्र-सेवायाश्च पञ्चविंशतिवर्षपूर्तेः अवसरे उत्तरकाशी-स्थिते पौराणिके श्रीकाशी-विश्वनाथमन्दिरे विशेषपूजार
विश्वनाथ मंदिर में पूजा अर्चना करते सीएम धामी


उत्तरकाशी, ०७ अक्टोबरमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य सार्वजनिकजीवनस्य राष्ट्र-सेवायाश्च पञ्चविंशतिवर्षपूर्तेः अवसरे उत्तरकाशी-स्थिते पौराणिके श्रीकाशी-विश्वनाथमन्दिरे विशेषपूजार्चनां कृतवान् तथा तस्य स्वस्थतायाः, दीर्घायुषः यशस्विनः च जीवनस्य कामनां कृतवान्।

सेवासङ्कल्प-अभियानस्य अन्तर्गतं उत्तरकाश्यां विकसितभारतसङ्कल्प-सभायाः सेवाज्योतियात्रायाश्च शुभारम्भं कर्तुं मुख्यमन्त्री धामी प्रातः जोशियाड़ा-हेलीपैड् इत्यत्र प्राप्तवान्। तत्र गङ्गोत्री-विधायकः सुरेशचौहानः, पूर्वविधायकः विजयपाल-सजवाणः, किशोरभट्टः, भाजपायाः जनपदाध्यक्षः नागेन्द्रचौहानः इत्यादयः दलस्य कार्यकर्तारश्च तस्य स्वागतं कृतवन्तः। ततः मुख्यमन्त्री साक्षात् श्रीकाशीविश्वनाथमन्दिरं गतवान् तथा बाबा विश्वनाथस्य शक्तिमन्दिरस्य च पूजार्चनां कृतवान्। तेन प्रधानमन्त्रिणः मोदी-महोदयस्य दीर्घस्य, स्वस्थस्य, सफलस्य च सार्वजनिकजीवनस्य कृते बाबा विश्वनाथात् आशीर्वादः प्रार्थितः। तदनन्तरं प्रदेशस्य सुखसमृद्धेः, जनपदस्य निरन्तरविकासस्य जनकल्याणस्य च कामना अपि कृता।

मुख्यमन्त्री धामी अवदत् यत् प्रधानमन्त्रिणः मोदी-महोदयस्य पञ्च-विंशतिवर्षीयं सार्वजनिकजीवनं राष्ट्र-सेवायै, जनकल्याणाय देशस्य विकासाय च समर्पितं कालखण्डम् अस्ति। सः अवदत् यत् प्रधानमन्त्रिणा स्वकीयेन सार्वजनिक-जीवनेन देशाय नूतना दिशाः नूतनां च ऊर्जां प्रदातुं कार्यं कृतम्।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः मोदी-महोदयस्य नेतृत्वे भारतं विकसितराष्ट्रभवितुं सङ्कल्पेन सह अग्रे गच्छति। तेन बाबा विश्वनाथं प्रार्थितं यत् देशः एवं निरन्तरं प्रगतिपथे अग्रे गच्छतु। सः अवदत् यत् देवभूमेः उत्तराखण्डस्य पवित्रभूमेः प्रधानमन्त्रिणः दीर्घस्य, स्वस्थस्य, सफलस्य च सार्वजनिक-जीवनस्य कृते बाबा विश्वनाथस्य आशीर्वादं प्रार्थयितुं तस्य कृते सौभाग्यस्य विषयः अस्ति। पूजार्चनानन्तरं मुख्यमन्त्री रामलीलाप्राङ्गणात् सेवाज्योतियात्रायाः शुभारम्भमपि करिष्यति।

Hindusthan Samachar / Divya Ranjan