Enter your Email Address to subscribe to our newsletters

कुल्लू, ७ अक्टोबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मू बुधवासरे हिमाचलप्रदेशस्य रोहताङ्गे सामरिकदृष्ट्या महत्त्वपूर्णाम् अटल-सुरङ्गं गतवती। अस्मिन् अवसरे तया सुरङ्गनिर्माणे सीमासडक-सङ्गठनस्य योगदानस्य प्रशंसा कृता।
राष्ट्रपतिः अवदत् यत् सीमासडक-सङ्गठनस्य समर्पणेन कठिनपरिश्रमेण च निर्मित: अटल-सुरङ्ग: वैश्विकमानकैः अनुरूपा अभियांत्रिकी-क्षेत्रस्य उत्कृष्टम् उदाहरणम् अस्ति। तया उक्तं यत् एषा प्रतिष्ठिता आधारभूत-संरचनापरियोजना देशस्य अतीव दुर्गमेषु भौगोलिकक्षेत्रेष्वपि निर्बाधसम्पर्कं सुनिश्चितुं भारतस्य तकनीकीक्षमतायाः, दृढसङ्कल्पस्य, प्रतिबद्धतायाश्च प्रमाणम् अस्ति।
अटल-सुरङ्ग: सामरिकदृष्ट्या अत्यन्तं महत्त्वपूर्ण: अस्ति। अस्य निर्माणेन मनाली-नगरम् आवर्षं लाहौल-स्पीतिघाट्या सह सम्बद्धं भवति। ९.०२ किलोमीटर-दीर्घस्य अस्य सुरङ्गस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना २०२० तमे वर्षे कृतम् आसीत्।
राष्ट्रपतेः भ्रमणसमये मनालीविधान-सभाक्षेत्रस्य विधायकः भुवनेश्वरगौडः लाहौल-स्पीतिविधानसभाक्षेत्रस्य विधायिका अनुराधाराणा च विशेषरूपेण उपस्थिते आस्ताम्।
Hindusthan Samachar / Divya Ranjan