पेजावरमठस्य प्रमुखस्वामी विश्वप्रसन्नतीर्थेन लिङ्गायतसमाजस्य शङ्कराचार्येण सह रामललायाः दर्शनं कृतम्
अयोध्या, 08 अक्टूबरमासः (हि.स.)। रामनगरी अयोध्यायां श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य न्यासी तथा पेजावरमठस्य उडुपी कर्नाटकस्य प्रमुखः श्रीश्रीविश्वप्रसन्नतीर्थस्वामी लिङ्गायतसमाजस्य गुरुणा शङ्कराचार्येण वाराणसीपीठेन सह गुरुवासरे श्रीरामजन्मभूमि
राम मंदिर ट्रस्टी पेजावर स्वामी हवन में सम्मिलित हुए


अयोध्या, 08 अक्टूबरमासः (हि.स.)।

रामनगरी अयोध्यायां श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य न्यासी तथा पेजावरमठस्य उडुपी कर्नाटकस्य प्रमुखः श्रीश्रीविश्वप्रसन्नतीर्थस्वामी लिङ्गायतसमाजस्य गुरुणा शङ्कराचार्येण वाराणसीपीठेन सह गुरुवासरे श्रीरामजन्मभूमिमन्दिरे श्रीरामललायाः दर्शनार्थम् आगतवान् तथा यज्ञशालायां हवनपूजने भागं गृहीतवान्।

सचिवः जगदीश आफले इत्याख्यः अवदत् यत् पूज्यमहाराजेन प्रभुश्रीरामसहितं मन्दिरपरिसरे प्रतिष्ठितानां सर्वेषां देवीदेवानां दर्शनपूजनं कृतम्। यज्ञशालायां बेङ्गलूरुतः समागतस्य मुनिराजराजू इत्यस्य सहितं १११ गणमान्यजनैः हवनपूजनं कृतम्। यज्ञशालायाः समस्ता व्यवस्था तीर्थक्षेत्रस्य पक्षतः शैलेन्द्रशुक्लेन कृता।

-------------

Hindusthan Samachar / Dheeraj Maithani