अधुना पीडिताः महिलाः अनुप्रयोगस्य क्यूआर-सङ्केतस्य च माध्यमेन साक्षात् महिला-आयोगे परिवादं पञ्जीकर्तुं शक्नुवन्ति।
लखनऊ, 08 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य महिला-आयोगस्य नवनियुक्ताध्यक्षा डॉ. बबितासिंहचौहानः गुरुवासरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह मिलित्वा आयोगस्य आगामी-डिजिटलकार्ययोजनां प्रति महत्त्वपूर्णं मार्गदर्शनं प्राप्तवती। अस्य मेलनस्य सम
मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 08 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य महिला-आयोगस्य नवनियुक्ताध्यक्षा डॉ. बबितासिंहचौहानः गुरुवासरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह मिलित्वा आयोगस्य आगामी-डिजिटलकार्ययोजनां प्रति महत्त्वपूर्णं मार्गदर्शनं प्राप्तवती। अस्य मेलनस्य समये प्रदेशस्य महिलानां सुरक्षायै तासां च शिकायतानां शीघ्रनिराकरणाय प्रौद्योगिक्याः उपयोगस्य विषये विशेषरूपेण चर्चा अभवत्।

बबितासिंहचौहानः अवदत् यत् महिला-आयोगः शीघ्रमेव विशेषं चलदूरभाष-अनुप्रयोगं प्रारम्भयितुं सज्जतां करोति, यस्य माध्यमेन प्रदेशस्य प्रत्येकं महिला अन्तर्जालस्य माध्यमेन साक्षात् आयोगेन सह सम्पर्कं स्थापयितुं शक्नोति। अस्याः नूतनव्यवस्थायाः अन्तर्गतं विशेषः क्यूआर-सङ्केतः प्रसारितः भविष्यति, यं सङ्केतं स्कृत्वा प्रदेशस्य कस्यापि भागात् पीडिता महिला स्वकीयां शिकायतं साक्षात् आयोगे पञ्जीकर्तुं शक्नोति।

मुख्यमंत्री योगी आदित्यनाथः आयोगस्य अस्याः प्राविधिकोपक्रमस्य प्रशंसां कुर्वन् ग्रामीणक्षेत्राणां नगरीयक्षेत्राणां च महिलाभ्यः एतां व्यवस्थां सरलां सुरक्षितां च कर्तुं निर्देशान् दत्तवान्।

डॉ. बबितासिंहचौहानः अवदत् यत् मुख्यमन्त्रिणः दूरदर्शिनः अभिप्रायानुसारम् एषा कार्ययोजना शीघ्रमेव कार्यरूपेण परिणेतुं प्रयासः क्रियते। अस्याः डिजिटलव्यवस्थायाः माध्यमेन महिलाभ्यः स्वकीयशिकायतानां कृते कार्यालयानां परिभ्रमणं न करणीयं भविष्यति तथा प्रौद्योगिक्याः साहाय्येन ताः अत्यल्पसमये न्यायं प्राप्तुं शक्नुवन्ति।

Hindusthan Samachar / Dheeraj Maithani