५७ तमे जीएसटीपरिषदः उपवेशने सम्मिलिता मुख्यमन्त्री रेखा गुप्ता, अवदत् सुधारैः पारदर्शिनी व्यवसायानुकूलाश्च करव्यवस्था निर्मीयते
नव दिल्ली, 08 अक्टूबरमासः (हि.स.)।दिल्लीमुख्यमन्त्री रेखागुप्ता गुरुवासरे भारतमण्डपे आयोजितस्य ५७ तमे जीएसटीपरिषदः उपवेशने भागं गृहीतवती। मुख्यमन्त्रिणा जीएसटीपरिषदा प्रस्तावितानां विविधसुधाराणां स्वागतं कुर्वत्या उक्तं यत् एतेषां सुधाराणाम् उद्देश
दिल्ली की मुख्यमंत्री रेखा गुप्ता  गुरुवार को भारत मंडपम में आयोजित 57वीं जीएसटी परिषद की बैठक में भागीदारी करते हुए


नव दिल्ली, 08 अक्टूबरमासः (हि.स.)।दिल्लीमुख्यमन्त्री रेखागुप्ता गुरुवासरे भारतमण्डपे आयोजितस्य ५७ तमे जीएसटीपरिषदः उपवेशने भागं गृहीतवती। मुख्यमन्त्रिणा जीएसटीपरिषदा प्रस्तावितानां विविधसुधाराणां स्वागतं कुर्वत्या उक्तं यत् एतेषां सुधाराणाम् उद्देश्यं देशे तादृशी करव्यवस्था विकसितुं यया सा पारदर्शिनी, कार्यकुशला, उत्तरदायिनी व्यवसायानुकूलाश्च भवेत्।

मुख्यमन्त्री उक्तवती यत् जीएसटीपरिषदः उपवेशने ‘सर्वेषां सहकारेण, सर्वेषां विकासेन, सर्वेषां विश्वासेन’ इत्यस्य भावनानुरूपं जीएसटीव्यवस्थां सरलीकर्तुं करदातृभ्यः अधिकसुविधाजनकां च कर्तुं सम्बद्धानां बहूनां महत्त्वपूर्णसुधाराणां विषये चर्चा अभवत्। सा उक्तवती यत् प्रतिदानराशेः प्रक्रिया स्वचालिता भवितुं व्यापारिभ्यः तेषां धनं समये एव प्राप्तुं शक्यते तथा च अनेन निर्यातकानां प्रतिस्पर्धात्मकक्षमता अपि वर्धिष्यते। अपरत्र, स्वचालितरूपेण पञ्जीकरणस्य निरस्तीकरणव्यवस्थया व्यवसायं समापयद्भ्यः करदातृभ्यः अनावश्यकविलम्बात् राहतिः प्राप्स्यते।

मुख्यमन्त्री उक्तवती यत् जीएसटीपञ्जीकरणस्य प्रक्रियाम् अपि सरलीक्रियते। अनेन ई वाणिज्यमञ्चेषु व्यवसायं कुर्वतां लघुविक्रेतॄणाम् अपि पञ्जीकरणं अधिकं सुगमं भविष्यति। सा उक्तवती यत् जीएसटीस्य अन्तर्गतं गिरफ्तारीशक्तेः उन्मूलनं तथा अभियोजनसम्बद्धानां प्रावधानानां तर्कसङ्गतीकरणम् इत्यादयः पदक्षेपाः देशे व्यवसायाय अनुकूलं वातावरणं निर्मास्यन्ति। एभिः सुधारैः देशे व्यवसायकरणं सुकरं भविष्यति तथा जीएसटीव्यवस्था अधिका सरला करदातृत्वानुकूला च भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani