वैशाल्यां भविष्यति ‘अन्ताराष्ट्रियबौद्धसम्मेलनम्’, समागमिष्यन्ति विश्वस्य प्रमुखाः बौद्धविद्वांसः।
पटना, 08 अक्टूबरमासः (हि.स.)। विश्वस्य प्राचीनतमगणराज्येषु अन्यतमस्य बिहारस्य वैशाल्यां २०२६ तमे वर्षे दिसम्बरमासस्य ११ दिनाङ्कतः १३ दिनाङ्कपर्यन्तं बुद्धसम्यक्दर्शनसङ्ग्रहालयस्य स्मृतिस्तूपपरिसरे भव्यस्य ‘अन्ताराष्ट्रियबौद्धसम्मेलनस्य’ आयोजनं भव
बैठक मुख्य सचिव सहित अन्य अधिकारी


पटना, 08 अक्टूबरमासः (हि.स.)।

विश्वस्य प्राचीनतमगणराज्येषु अन्यतमस्य बिहारस्य वैशाल्यां २०२६ तमे वर्षे दिसम्बरमासस्य ११ दिनाङ्कतः १३ दिनाङ्कपर्यन्तं बुद्धसम्यक्दर्शनसङ्ग्रहालयस्य स्मृतिस्तूपपरिसरे भव्यस्य ‘अन्ताराष्ट्रियबौद्धसम्मेलनस्य’ आयोजनं भविष्यति।

अस्य ऐतिहासिकस्य आयोजनस्य भव्यरूपेण सम्पन्नतां प्रति गुरुवासरे बिहारस्य मुख्यसचिवस्य प्रत्ययअमृतस्य विकासायुक्तस्य मिहिरकुमारसिंहस्य च संयुक्ताध्यक्षतायां उच्चस्तरीया अन्तरविभागीयसमन्वयसभा अभवत्। सभायां वैशालीजनपदस्य जिलाधिकारी दूरदृश्यप्रणाल्या सम्बद्धा अभवत्। पर्यटनविभागस्य, कलासंस्कृतिविभागस्य, सूचनाजनसम्पर्कविभागस्य च वरिष्ठाधिकारिणः अपि सभायाम् उपस्थिताः आसन्।

मुख्यसचिवेन विकासायुक्तेन च आयोजनस्थले तस्य आसपासक्षेत्रेषु च सुगमागमनाय मार्गाणां मरम्मतं, निर्बाधविद्युत्प्रदायं, अत्याधुनिकस्वास्थ्यकेन्द्राणां चिकित्सादलानां च नियुक्तिं प्रति कठोरनिर्देशाः प्रदत्ताः।

मुख्यसचिवः प्रत्ययअमृतः अवदत् यत् म्यांमार, थाईलैण्ड्, लाओस्, जापान, दक्षिणकोरिया इत्यादिभ्यः अनेकेभ्यः देशेभ्यः पूज्यबौद्धभिक्षूणां, धर्मगुरूणां च तथा चतुर्दशानाम् अन्तर्राष्ट्रीयविदुषां सहभागितायै सहमतिः प्राप्ता अस्ति। पटना-विमानपत्तने पटना-जङ्क्शने च चतुर्विंशतिः होराः प्रतिदिनं, सप्ताहस्य सप्तसु दिनेषु च सहाय्यकक्षाः स्थापिताः भविष्यन्ति। देशविदेशेभ्यः आगच्छद्भ्यः श्रद्धालुभ्यः प्रतिनिधिभ्यश्च वैशाल्यां अत्याधुनिकं ‘टेन्ट् सिटी’ इति तम्बूनगरं निर्मीयते, यस्मिन् सर्वविधाः आधुनिकसुविधाः उपलब्धाः भविष्यन्ति।

प्रत्ययअमृतः अवदत् यत् त्रिदिवसीये अस्मिन् समागमे अन्तर्राष्ट्रीयस्तरेन राज्यस्तरेन च ख्यातिलब्धैः कलाकारैः सांस्कृतिकप्रस्तुतयः, त्रिपिटकपाठः, बौद्धविरासत्सम्बद्धः विचारविमर्शः, विरासत्परिभ्रमणं तथा बिहारस्य हस्तशिल्पानां विशालप्रदर्शनी च आयोजयिष्यते।

मुख्यसचिवः प्रत्ययअमृतः अवदत् यत् अयम् अन्तर्राष्ट्रीयसम्मेलनः बिहारं वैश्विकपर्यटनस्य बौद्धाध्यात्मस्य च मानचित्रे नूतनं शिखरं स्थापयिष्यति। वैशालीप्रशासनाय निर्देशः प्रदत्तः अस्ति यत् सर्वाणि अन्तरविभागीयकार्याणि समयबद्धरीत्या पूर्णानि क्रियन्ताम्, येन विश्वस्य विभिन्नेभ्यः भागेभ्यः आगच्छन्तः अतिथयः बिहारस्य समृद्धसंस्कृतेः आतिथ्यस्य च अविस्मरणीयम् अनुभवं प्राप्य प्रत्यागच्छेयुः।

---------------

Hindusthan Samachar / Dheeraj Maithani