पर्यटकान् संवेदनशीलान् उत्तरदायिनश्च कर्तुं तेषां पर्यावरणविषयकं जागरणम् आवश्यकम् : केन्द्रीयसचिवः
मध्यप्रदेशट्रैवलमार्टे वन्यजीवाः, समुदायः तथा सततपर्यटनं प्रति पैनलचर्चा भोपालम्, ०८ अक्तूबरमासः (हि.स.)। केन्द्रीयपर्यटनसचिवः भुवनेशकुमारः अवदत् यत् पर्यटनस्य सफलता केवलं पर्यटकानां संख्यया न निर्धारणीया, अपितु एतदपि द्रष्टव्यं यत् पर्यटनस्य माध्
मध्यप्रदेश ट्रैवल मार्ट में चर्चा करते हुए डॉ. इलैयाराजा टी.


मध्यप्रदेशट्रैवलमार्टे वन्यजीवाः, समुदायः तथा सततपर्यटनं प्रति पैनलचर्चा

भोपालम्, ०८ अक्तूबरमासः (हि.स.)। केन्द्रीयपर्यटनसचिवः भुवनेशकुमारः अवदत् यत् पर्यटनस्य सफलता केवलं पर्यटकानां संख्यया न निर्धारणीया, अपितु एतदपि द्रष्टव्यं यत् पर्यटनस्य माध्यमेन स्थानीयसमुदायाय प्रकृतये च कियत् लाभः प्राप्यते। पर्यटकान् संवेदनशीलान् उत्तरदायिनश्च कर्तुं तेषां पर्यटनस्य पर्यावरणस्य च विषये जागरूकता आवश्यकम् अस्ति। तथैव स्थानीयसमुदायानां पर्यटकैः सह उत्तमसंवादस्य आतिथ्यस्य च कृते प्रशिक्षणं दातव्यं, येन पर्यटनजनितः आर्थिकलाभः स्थानीयस्तरपर्यन्तं प्राप्नुयात्।

केन्द्रीयसचिवः कुमारः गुरुवासरे मध्यप्रदेशस्य पर्यटनसम्भावनानां वैश्विकमञ्चे प्रस्तुतीकरणस्य उद्देश्यम् आयोजितस्य मध्यप्रदेशट्रैवलमार्ट् २०२६ इत्यस्य द्वितीयदिने राजधानी भोपालस्थे कुशाभाऊ ठाकरे अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे ‘भारतस्य वन्यप्रदेशानां जीवन्तं परिदृश्यम् : मध्यप्रदेशे वन्यजीवाः, समुदायः तथा सततपर्यटनम्’ इति विषये चर्चां कुर्वन् एतत् उक्तवान्।

चर्चायां मध्यप्रदेशईकोटूरिज्मविकासमण्डलस्य मुख्यकार्यपालनाधिकारी एल. कृष्णमूर्तिः, पर्यटनसचिवः मध्यप्रदेशटूरिज्मबोर्डस्य प्रबन्धसञ्चालकश्च डॉ. इलैयाराजा टी., सीजीएच अर्थ एक्सपीरियंस होटल्सस्य महाप्रबन्धकः डेविड राजू, एण्ड बियॉण्ड एशियायाः निदेशकः टोबी सिंक्लेयरः, ग्राम स्टे इत्यस्य संस्थापकः मुख्यकार्यपालनाधिकारी च पारीक्षितसिंहः तथा वन्यजीवछायाचित्रकारः शिवाङ्गमेहता च पैनले समाविष्टाः आसन्। सत्रस्य सञ्चालनं वैक्सपोल होटल्स एण्ड रिसॉर्ट्स इत्यस्य संस्थापिका निदेशिका च तथा एटोआई वुमन्स कलेक्टिव इत्यस्य अध्यक्षापि आकांक्षा गर्गः कृतवती।

वन्यजीवपर्यटने स्थानीयसमुदायेन सह सम्पर्कः आवश्यकः : केन्द्रीयसचिवः

केन्द्रीयसचिवः कुमारः अवदत् यत् वन्यजीवपर्यटने स्थानीयसमुदायैः सह सम्पर्कः अत्यन्तं महत्त्वपूर्णः अस्ति। ‘स्थानीयसमुदायेन सह गच्छन्तु, तैः सह सम्बद्धाः भवन्तु’ इत्यस्य भावनया एव सततपर्यटनस्य उद्देश्यम् पूर्णं भवितुं शक्नोति। मध्यप्रदेशे वनप्रबन्धनस्य वन्यजीवसंरक्षणस्य च क्षेत्रे उल्लेखनीयः कार्यः कृतः अस्ति तथा कूनोमध्ये कृतं चीतासंरक्षणम् अस्य महत्त्वपूर्णम् उदाहरणम् अस्ति। वन्यजीवपर्यटनं केवलं वन्यजीवानां दर्शनपर्यन्तं सीमितं न कृत्वा विविधप्राकृतिकानुभवैः सह सम्बद्धं कर्तुं आवश्यकता अस्ति। चम्बले डॉल्फिनमीनाः, गान्धीसागरक्षेत्रस्य जैवविविधता, गृध्रसंरक्षणं तथा गृध्राणां प्रजननस्थलानां समीपे पूर्णिमायां रात्रौ नौकाविहारः इत्यादयः अद्वितीयानुभवाः मध्यप्रदेशस्य वन्यजीवपर्यटनाय नूतनं आयामं दातुं शक्नुवन्ति।

पर्यटकानां सुरक्षया सह मार्गदर्शकानां वाहनचालकानां च प्रशिक्षणं स्थानीयसमुदायानां सहभागिता च महत्त्वपूर्णा : एल. कृष्णमूर्तिः

मध्यप्रदेशईकोटूरिज्मविकासमण्डलस्य मुख्यकार्यपालनाधिकारी एल. कृष्णमूर्तिः अवदत् यत् आगामिकाले पर्यटनं प्रौद्योगिक्याः उत्तमसंवादस्य च माध्यमेन अग्रे वर्धिष्यते। वन्यजीवपर्यटनं केवलं भ्रमणपर्यन्तं सीमितं नास्ति, अपितु पर्यटकाः विशिष्टान् स्मरणीयान् च अनुभवाः प्राप्तुं आगच्छन्ति। मध्यप्रदेशे कान्हा इत्यस्य सह रातापानी, सतपुडा, सञ्जय तथा वीराङ्गना दुर्गावती व्याघ्राभयारण्यादीनि क्षेत्राण्यपि वन्यजीवपर्यटनाय विकसितानि क्रियन्ते। तेन पर्यटकानां सुरक्षया सह मार्गदर्शकानां वाहनचालकानां च प्रशिक्षणं स्थानीयसमुदायानां सहभागिता च पर्यटनविकासाय महत्त्वपूर्णा इति प्रतिपादितम्।

मध्यप्रदेशस्य लक्ष्यं ‘सततं संरक्षणाधारितं पर्यटनप्रतिरूपम्’ विकसितुम् : प्रबन्धसञ्चालकः डॉ. इलैयाराजा टी.

पर्यटनविभागस्य सचिवः मध्यप्रदेशपर्यटनमण्डलस्य प्रबन्धसञ्चालकश्च डॉ. इलैयाराजा टी. अवदत् यत् मध्यप्रदेशेन वनस्य वन्यजीवप्रबन्धनस्य च क्षेत्रे प्रभाविप्रयासाः कृताः सन्ति। अधुना एव भारतदेशे जातया चीतया पञ्च शावकाः प्रसूताः, यत् देशे चीतासंरक्षणस्य दिशि महत्त्वपूर्णा उपलब्धिः अस्ति। चीतानां मध्यप्रदेशस्य पर्यावरणे अनुकूलितुं समयः अभवत्, किन्तु अधुना संरक्षणप्रयासाः सफलाः भवन्ति इव दृश्यन्ते। एतेषां संरक्षणप्रयासानां पर्यटनस्य नूतनैः उत्तरदायिभिः अनुभवैः सह संयोजने विशेषं ध्यानं दीयते।

तेन उक्तं यत् रातापानी नूतनव्याघ्राभयारण्यरूपेण विकासः प्रदेशे वन्यजीवपर्यटनस्य विस्तारस्य दिशि महत्त्वपूर्णं सोपानम् अस्ति। चम्बले गृध्राणां प्रजननस्थलानां समीपे पूर्णिमायाः चन्द्रप्रकाशे नौकाविहारः इत्यादयः विशिष्टानुभवाः पर्यटकान् प्रकृतेः वन्यजीवानां च समीपं नेतुं संरक्षणस्य प्रति जागरूकतां वर्धयितुं च महत्त्वपूर्णाः सन्ति। तेन अवदत् यत् मध्यप्रदेशस्य लक्ष्यं सततं संरक्षणाधारितं पर्यटनप्रतिरूपं विकसितुम् अस्ति, यस्मिन् प्राकृतिकसंसाधनानां संरक्षणं सर्वोच्चप्राथमिकता भवेत् तथा स्थानीयसमुदायानां कृते रोजगारस्य आजीविकायाः च अवसराः प्राप्येरन्।

वन्यजीवपर्यटने विविधाः अनुभवाः प्रशिक्षिताः मार्गदर्शकाश्च आवश्यकाः

एण्ड बियॉण्ड एशियायाः निदेशकः टोबी सिंक्लेयरः अवदत् यत् वन्यजीवपर्यटनम् अधुना केवलं व्याघ्रदर्शनपर्यन्तं सीमितं नास्ति। वनं, प्रकृतिः, पक्षिणः, अन्ये वन्यजीवाः तथा स्थानीयजीवनस्य अनुभवाः अपि पर्यटनस्य भागाः कर्तव्याः। एतदर्थं प्रशिक्षितानां कथावाचकानां आवश्यकता अस्ति, येन पर्यटकाः कस्यचित् स्थानस्य केवलं दर्शनं न कुर्वन्तु, अपितु तस्य स्थानस्य स्वरूपं ज्ञात्वा अनुभवेयुश्च।

सीजीएच अर्थ एक्सपीरियंस होटल्सस्य महाप्रबन्धकः डेविड राजू अवदत् यत् लघवः अनुभवाः एव कञ्चन गन्तव्यस्थानं विशिष्टं कुर्वन्ति। सफारीयानस्य वाहनस्य च अनुभवस्य उन्नयनस्य सह मार्गदर्शकानां ज्ञानस्य प्रशिक्षणस्य च विषये ध्यानं दातुं आवश्यकम् अस्ति। प्रशिक्षिताः मार्गदर्शकाः पर्यटकेभ्यः वनस्य वन्यजीवानां स्थानीयपारिस्थितिक्याः च विषये सम्यक् संसूचनां दत्त्वा तेषाम् अनुभवम् अधिकं ज्ञानवर्धकं स्मरणीयं च कर्तुं शक्नुवन्ति।

पैनलचर्चायां संरक्षणाधारितस्य समुदायकेन्द्रितस्य च वन्यजीवपर्यटनस्य विषये विशेषः बलः दत्तः। तथैव उक्तं यत् कान्हा, बांधवगढ, पेञ्च, सतपुडा, पन्ना तथा माधव इत्यादिषु प्रदेशस्य वनक्षेत्रेषु पर्यटनस्य व्यापकाः सम्भावनाः सन्ति। पर्यटनस्य विकासः पर्यटकानां संख्यावर्धनात् अधिकं प्रकृतिसंरक्षणस्य स्थानीयसमुदायानां सहभागितायाश्च प्राथमिकतां दत्त्वा करणीयः। स्थानीय रोजगारस्य, प्रशिक्षितमार्गदर्शकानां, होमस्टेव्यवस्थायाः, स्थानीयव्यञ्जनानां, हस्तशिल्पस्य सांस्कृतिकानुभवानां च प्रोत्साहनेन ग्रामीणार्थव्यवस्था सुदृढा कर्तुं शक्यते।

Hindusthan Samachar / Dheeraj Maithani