Enter your Email Address to subscribe to our newsletters


नवदिल्ली/चेन्नई, ८ अक्टोबरमासः (हि.स.)। केन्द्रीयनवीन-नवीकरणीय-ऊर्जामन्त्री प्रल्हादजोशी गुरुवासरे चेन्नईनगरे ‘विन्डर्जी इण्डिया-२०२६’ इत्यस्य अष्टमसंस्करणस्य उद्घाटनं कृतवान्। सः अवदत् यत् देशे प्रायः २५ गीगावाट्-क्षमतायुक्तानां प्राचीनानां पवन-ऊर्जा-परियोजनानां पुनर्विकासाय सर्वकारः रणनीतिं निर्माति।
उद्घाटनानन्तरं स्वसम्बोधने प्रल्हादजोशी देशे पवन-ऊर्जायाः विपुलसम्भावनाः तया प्रदत्तानां च महत्त्वपूर्णावसराणां विषये प्रकाशं पातितवान्। सः अवदत् यत् भारतस्य पवन-ऊर्जा-क्षेत्रे सुदृढा प्रगतिः दृश्यते। २०२५-२६ वित्तवर्षे ६.०५ गीगावाट् क्षमतायाः स्थापना अभिलेखीयं वार्षिकं स्तरं प्राप्तवती। जोशी अवदत् यत् २०२६-२७ वित्तवर्षे वार्षिक-पवन-ऊर्जा-स्थापनानि अस्मिन् अभिलेखे अपि नूतनं कीर्तिमानं स्थापयिष्यन्ति। एषा उपलब्धिः भारतस्य पवन-ऊर्जा-यात्रायां अन्यां महत्त्वपूर्णां उपलब्धिं सूचयिष्यति।
प्रल्हादजोशी अवदत् यत् सप्टेम्बर-मासपर्यन्तं देशस्य पवन-ऊर्जा-क्षमता ५९.२० गीगावाट् यावत् प्राप्तवती अस्ति। एषा निरन्तरवृद्धिः २०३० तमवर्षपर्यन्तं १०० गीगावाट् स्थापित-पवन-ऊर्जा-क्षमतायाः राष्ट्रीयं लक्ष्यं प्राप्तुम् आधारं सुदृढं करिष्यति तथा च भारतस्य पवन-ऊर्जा-क्षेत्रस्य विकासं अधिकं वेगवत्तरं करिष्यति।
केन्द्रीयमन्त्री जोशिना २०३० तमवर्षपर्यन्तं १०० गीगावाट् पवन-ऊर्जा-क्षमतां प्राप्तुं मार्गरूपरेखा अपि प्रस्तुतः।
अस्मिन् अवसरे तमिलनाडुराज्यस्य ऊर्जासंसाधन-विधिमन्त्री थिरु सी.टी.आर. निर्मलकुमारः, केन्द्रसर्वकारस्य विभिन्न-राज्यसर्वकाराणां च वरिष्ठाधिकारिणः, पवन-ऊर्जा-सङ्घानां प्रतिनिधयः तथा उद्योगजगतः प्रमुखाः उपस्थिताः आसन्।
‘विन्डर्जी इण्डिया-२०२६’ इत्यनेन वैश्विकं पवन-ऊर्जा-परितन्त्रं एकस्मिन् मञ्चे सम्मानीतम्। अस्मिन् २० तः अधिकदेशानां प्रतिनिधित्वं कुर्वन्तः प्रायः ४०० प्रदर्शकाः, ५०० प्रतिनिधयः तथा डेनमार्क-जर्मनी-स्पेनदेशानां विशिष्टाः देश-मण्डपाः सम्मिलिताः सन्ति।
Hindusthan Samachar / Divya Ranjan