बाबासाहेबस्य स्वप्नानां भारतस्य निर्माणाय रामविलासपासवानः आजीवनं समर्पितः आसीत् - मुख्यमन्त्री योगी
लखनऊ, ८ अक्टोबरमासः (हि.स.)। प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे सुशान्तगोल्फसिटीस्थे एकस्मिन् होटल इत्यत्र आयोजिते पूर्वकेन्द्रीयमन्त्रिणः रामविलास-पासवानस्य पुण्यतिथिकार्यक्रमे भागं गृहीतवान्। श्रद्धाञ्जलिसभां सम्बोधयन् मुख्यमन्त्री
पूर्व केंद्रीय मंत्री रामविलास पासवान की पुण्यतिथि के कार्यक्रम में सीएम योगी शामिल हुए,श्रद्धांजलि दी


लखनऊ, ८ अक्टोबरमासः (हि.स.)। प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे सुशान्तगोल्फसिटीस्थे एकस्मिन् होटल इत्यत्र आयोजिते पूर्वकेन्द्रीयमन्त्रिणः रामविलास-पासवानस्य पुण्यतिथिकार्यक्रमे भागं गृहीतवान्। श्रद्धाञ्जलिसभां सम्बोधयन् मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् पञ्चाशद्वर्षेभ्यः पूर्वं देशस्य राजनीतिक्षेत्रे एकस्य युवा-नेतुः उदयः अभवत्, यः कालेन सह दलितानां, शोषितानां वञ्चितानां च प्रखरः स्वरः अभवत्। सः उक्तवान् यत् बिहारस्य जनताजनार्दनेन तस्मै अत्यधिकं सम्मानं प्रदत्तं तथा च देशे सर्वाधिकमतैः विजयं प्राप्य सः भारतस्य संसदं प्रति प्रेषितः आसीत्। रामविलास-पासवानः आजीवनं भारतीय-राजनीत्याः माध्यमेन सामाजिकचेतनां जागरयितुं तथा बाबासाहेब-डॉ. भीमराव-अम्बेड-करस्य स्वप्नानां भारतस्य निर्माणाय स्वजीवनं सम्पूर्णतया समर्पितवान्।

मुख्यमन्त्रिणा स्वर्गीयेन पासवानमहोदयेन सह संसदः दीर्घकालं यावत् व्यतीतं स्वकार्यकालं स्मरन् उक्तं, “संसदि तेन सह कार्यं कर्तुं मह्यं सौभाग्यं प्राप्तम्। तस्य मनसि भारतस्य सनातनपरम्परा: प्रति प्रगाढः श्रद्धाभावः सम्मानभावश्च आसीत्।”

मुख्यमन्त्री योगी उक्तवान् यत् रामविलासपासवानः कस्यापि भेदभावं विना सामाजिकसंघर्षं अग्रे नीतवान्। श्रद्धेय-अटलबिहारीवाजपेयी-महोदयस्य सर्वकारः भवतु अथवा प्रधानमन्त्रिणः नरेन्द्रमोदिनः मन्त्रिमण्डलम्, केन्द्रीय-मन्त्रीरूपेण तस्य व्यवहारः सदैव अत्यन्तं सरलः, स्नेहपूर्णः सद्भावनापूर्णश्च आसीत्, यः सर्वेषां हृदयानि स्पृशति स्म।

चिरागपासवानः पितुः अभियानम् अग्रे वर्धयति

मुख्यमन्त्री उक्तवान् यत् अद्य रामविलास-पासवानस्य भौतिकानुपस्थितिः अस्मान् खेदयति, किन्तु इदं अत्यन्तं सन्तोषजनकं यत् तस्य पुत्रः वर्तमानकेन्द्रीयमन्त्री च चिरागपासवानः पितुः तदपूर्णम् अभियानं पूर्णनिष्ठया अग्रे नेतुं प्रयतते। चिरागपासवानः अद्य केन्द्रीयमन्त्रीरूपेण प्रत्येकस्मिन् मञ्चे देशस्य वञ्चितानां समाजस्य च प्रखरः स्वरः भूत्वा निरन्तरं कार्यं कुर्वन् अस्ति।

Hindusthan Samachar / Divya Ranjan