अनन्या पाण्डेय: इत्यनया एनआईएफ ग्लोबल-संस्थानस्य बान्द्रा-परिसरस्य उद्घाटनं कृतम्
मुम्बई, ९ अक्टोबरमासः (हि.स.)। अभिनेत्री अनन्या पाण्डेय: इत्यनया एनआईएफ ग्लोबल-संस्थानस्य बान्द्रा-परिसरस्य उद्घाटनं कृतम्। संस्थानस्य शैली-प्रतीकरूपेण कार्यक्रमे सम्मिलिता अनन्या फैशनक्षेत्रे, आन्तरिकसज्जाकलायां तथा अन्येषु सृजनात्मकक्षेत्रेषु वृत
अनन्या पांडे - फोटो सोर्स एक्स


मुम्बई, ९ अक्टोबरमासः (हि.स.)। अभिनेत्री अनन्या पाण्डेय: इत्यनया एनआईएफ ग्लोबल-संस्थानस्य बान्द्रा-परिसरस्य उद्घाटनं कृतम्। संस्थानस्य शैली-प्रतीकरूपेण कार्यक्रमे सम्मिलिता अनन्या फैशनक्षेत्रे, आन्तरिकसज्जाकलायां तथा अन्येषु सृजनात्मकक्षेत्रेषु वृत्तिं निर्मातुम् इच्छुकैः विद्यार्थिभिः सह मिलितवती। अस्मिन् अवसरे सा स्वस्य चलचित्र-जीवनस्य, व्यक्तिगतशैल्याः, व्यावसायिक-जीवनस्य च अनुभवान् सहभागं कृतवती। नूतनपरिसरस्य प्रारम्भः मुम्बईनगरस्य युवभ्यः सृजनात्मक-शिक्षायाः वृत्त्य-वसराणां च विस्तारस्य दिशि महत्त्वपूर्णं सोपानं मन्यते।

कार्यक्रमे विद्यार्थिनः, शिक्षकाः, फैशन-मनोरञ्जनक्षेत्रयोः सम्बद्धाः जनाः च भागं गृहीतवन्तः। एनआईएफ ग्लोबल कॉर्पोरेट-संस्थानस्य सृजनात्मकशिक्षिका तिशा खोसलया अनन्यया सह संवादः कृतः। अस्मिन् संवादे फैशनक्षेत्रस्य परिवर्तमानप्रवृत्तीनां, व्यक्तिगतशैल्याः, अभिकल्पनक्षेत्रे वृत्त्यवसराणां च विषये चर्चा अभवत्।

अनन्या अवदत् यत् तस्यै फैशन स्वात्माभिव्यक्तेः माध्यमम् अस्ति। विद्यार्थिनां विचारान् स्वप्नांश्च ज्ञातुं सा प्रसन्नताम् अव्यक्तवती। युवभ्यः स्वस्य सृजनात्मकतां ज्ञातुं स्वाभिरुचिं च वृत्तिरूपेण परिवर्तयितुं अवसराः प्राप्तव्याः इति अपि सा उक्तवती। कार्यक्रमे प्रश्नोत्तर-सत्रमपि आयोजितम्, यस्मिन् विद्यार्थिनः अनन्यां फैशन, शैलीनिर्धारणम्, प्रतिरूपणम् तथा हिन्दीचलचित्रजगति वृत्तिनिर्माणसम्बद्धान् प्रश्नान् अपृच्छन्। ततः अनन्या विद्यार्थिभिः सह केषुचित् मनोरञ्जककार्यकलापेषु अपि भागं गृहीतवती।

Hindusthan Samachar / Divya Ranjan