Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 अक्टूबरमासः (हि.स.)।
भारतीयजनतापक्षस्य (भाजपेति) राष्ट्रियाध्यक्षः नितिन नवीनः शुक्रवासरे पक्षस्य केन्द्रीयमुख्यालये नवनियुक्तैः राष्ट्रियमहासचिवैः सह उपवेशनम् अकरोत्। अस्मिन् उपवेशने सङ्घटनात्मकसज्जतायाः समीक्षया सह आगामीकार्ययोजनानां तथा विभिन्नराज्येषु भविष्यतां विधानसभानिर्वाचनानां रणनीतेः विषये विस्तरेण चर्चा अभवत्।
उपवेशने पक्षसङ्घटनस्य अधिकं सुदृढीकरणम्, विभिन्नराज्येषु सङ्घटनात्मकगतिविधीनां गतिवर्धनम् तथा मतदानकेन्द्रस्तरपर्यन्तं कार्यकर्तॄणां सक्रियतायाः वर्धनम् इत्यादीनां विषयाणां मन्थनम् अभवत्। एतदतिरिक्तं पक्षस्य जनसम्पर्कस्य विस्ताराय सङ्घटनात्मककार्याणि प्रभावीरूपेण अग्रे नेतुं च विशेषः बलः प्रदत्तः।
उपवेशनानन्तरं पक्षाध्यक्षः छायाचित्राणि प्रकाशित्य अवदत् यत् राष्ट्रियमहासचिवैः सह उपवेशनं कृत्वा विभिन्नसङ्घटनात्मकविषयेषु आगामीकार्ययोजनासु च विस्तृतचर्चा कृता।
विभिन्नराज्येषु भविष्यतां निर्वाचनानां दृष्ट्या सङ्घटनस्य सज्जतायाः सुदृढीकरणाय पक्षस्य रणनीतेः प्रभाविणः कार्यान्वयनाय च एतदुपवेशनम् अत्यन्तं महत्त्वपूर्णं मन्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani