Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 अक्टूबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अवदत् यत् कौशलप्रशिक्षणसंस्थानानां महत्त्वं भारतीयप्रौद्योगिकीसंस्थानानां (आईआईटी) भारतीयप्रबन्धनसंस्थानानां (आईआईएम) च महत्त्वात् किमपि न्यूनं नास्ति। सः युवभ्यः परिवर्तमानप्रौद्योगिक्यनुसारं निरन्तरं नूतनकौशलानि अर्जयितुं स्वक्षमतानां च उन्नयनं कर्तुम् आह्वानम् अकरोत्।
मोदी अत्र स्वकीयस्य सप्त, लोककल्याणमार्गस्थितस्य आवासे शाङ्घाईनगरे आयोजितायां अष्टचत्वारिंशत्तमायां विश्वकौशलप्रतियोगितायां भागं गृहीतवद्भिः भारतीयदलस्य प्रतिनिधिभिः सह संवादम् अकरोत्। अन्तरराष्ट्रियस्तरे भारतस्य प्रतिनिधित्वं कृतवद्भ्यः प्रतिभागिभ्यः सः अभिनन्दनम् अयच्छत् तथा च देशे कौशलविकासस्य दूताः भवितुं तान् प्रोत्साहितवान्।
प्रधानमन्त्री अवदत् यत् व्यावहारिककौशलानि शैक्षणिकोपाधिभिः समानमेव महत्त्वपूर्णानि सन्ति। सः युवभ्यः अन्तरराष्ट्रियविपणीनां आवश्यकतानुसारं कौशलानि विकसितुं उदयमानप्रौद्योगिकीभिः सह सामञ्जस्यं स्थापयितुं च आह्वानम् अकरोत्।
मोदी अवदत् यत् भारतं कुशलमानवसंसाधनस्य वैश्विककेन्द्रं कर्तुं युवभिः, सर्वकारेण, प्रशिक्षणसंस्थानैश्च मिलित्वा कार्यं करणीयम्। प्रतियोगितायाः समये प्राप्तम् अनुभवं सुझावांश्च सर्वकारेण सह संविभक्तुं सः प्रतिभागिभ्यः आग्रहं कृतवान्, येन देशस्य कौशलप्रशिक्षणव्यवस्थायाः अधिकं परिष्कारः कर्तुं शक्येत।
प्रतिभागिभिः प्रतियोगितायाः समये नूतनानाम् उपकरणानां, सङ्गणककार्यक्रमाणाम्, प्राविधिकव्यवस्थानां, कार्यप्रक्रियाणां च अनुरूपं स्वयम् अनुकूलयितुं प्राप्तस्य अनुभवस्य विषये विचाराः प्रस्तुताः। कौशलविकासाय सर्वकारेण क्रियमाणानां प्रयासानाम् उल्लेखमपि तैः कृतम्।
शाङ्घाईनगरे सेप्टेम्बरमासस्य द्वाविंशतितः सप्तविंशतिपर्यन्तम् आयोजितायाम् अष्टचत्वारिंशत्तमायां विश्वकौशलप्रतियोगितायां भारतं दशमे स्थाने आसीत्। भारतीयदलेन षट् रजतपदकानि तथा उत्कृष्टतायाः विंशतिपदकानि प्राप्तानि। अस्यां प्रतियोगितायां भारतस्य पक्षतः अद्यावधि बृहत्तमं सप्ततिसदस्यात्मकं दलं त्रिषष्टिषु कौशलवर्गेषु भागम् अगृह्णात्।
अस्मिन् संवादकार्यक्रमे कौशलविकासस्य उद्यमशीलतायाश्च राज्यमन्त्री (स्वतन्त्रप्रभारः), शिक्षाराज्यमन्त्री च जयन्तचौधरी तथा केन्द्रसर्वकारस्य वरिष्ठाधिकारिणः अपि उ
पस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani