Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्, ९ अक्टोबरमासः (हि.स.)। जनपदे नवरात्रपर्व शान्तिपूर्णतया सुरक्षितरूपेण च सम्पन्नं कारयितुं फर्रुखाबाद-आरक्षकप्रशासनेन सुरक्षायाः कठोरव्यवस्थाः कृताः। आरक्षकाधीक्षिका आरतीसिंह: इत्यस्याः निर्देशानुसारं जनपदस्य प्राचीनमन्दिरेषु दुर्गाप्रतिमा-स्थापितस्थलेषु च विशेषं सुरक्षा-व्यवस्थातन्त्रं सज्जीकृतम् अस्ति। एतेषु स्थलेषु सीसीटीवी-कैमरा-ड्रोनमाध्यमेन निरीक्षणं क्रियते।
आरक्षकाधीक्षिका आरतीसिंह: शुक्रवासरे अवदत् यत् जनपदे ४६ प्राचीनमन्दिरेषु ८५ दुर्गाप्रतिमास्थापितस्थलेषु च विशेषसुरक्षा-व्यवस्था कृता अस्ति। नवरात्रपर्वणि कण्ठहारचौर्यं, महिला: प्रति दुर्व्यवहारस्य अन्येषां च आपराधिक-घटनानां निवारणाय आरक्षकप्रशासनं सतर्कं भविष्यति। ड्रोन-सीसीटीवी-कैमरा-माध्यमेन सन्दिग्धगतिविधीनां निरीक्षणं क्रियते, येन समये एव आरक्षकप्रशासनं कार्यवाहीं कर्तुं शक्नुयात्।
नवरात्रपर्वणि सुरक्षाव्यवस्थां प्रभाविणीं कर्तुं सम्पूर्णः जनपदः चतुर्षु क्षेत्रेषु चतुर्दशसु विभागेषु च विभक्तः अस्ति। सुरक्षा-व्यवस्थायाः दायित्वनिर्वहणाय चत्वारः क्षेत्राधिकारीणः, पञ्चदश निरी-क्षकाः, अशीतिः उपनिरीक्षकाः सप्तशतं च आरक्षकाः नियुक्ताः सन्ति। आरक्षकाधि-कारिणः कर्मचारीणश्च स्वस्व-क्षेत्रेषु निरन्तरं निरीक्षणं करिष्यन्ति।
आरक्षकाधीक्षिका आरतीसिंह: अवदत् यत् दुर्गाप्रतिमास्थापनस्य आयोजकमण्डलैः सह सभां कृत्वा तेभ्यः सुरक्षामानकानां विषये सूचनाः प्रदत्ताः सन्ति। आयोजकेभ्यः निर्देशाः दत्ताः यत् ते निर्धारितसुरक्षा-मानकानां पूर्णतया पालनं कुर्वन्तु तथा कस्यामपि परिस्थितौ प्रमादं न कुर्वन्तु। नियमानाम् उल्लङ्घने सम्बन्धित-आयोजकानां विरुद्धं कार्यवाही क्रियते। नवरात्रपर्वणि श्रद्धालूनां महिलानां च सुरक्षां तथा विधिव्यवस्थां संरक्षितुम् आरक्षकप्रशासनं पूर्णतया सतर्कं भविष्यति।
Hindusthan Samachar / Divya Ranjan