Enter your Email Address to subscribe to our newsletters

काठमाण्डू, ९ अक्टोबरमासः (हि.स.)। नेपालस्य शिक्षा मन्त्रालयेन सर्वकारीय-शिक्षकाणां वाहनक्रयणार्थं व्याजे सहायताप्रदानस्य प्रावधानसहितं शिक्षा-नियमावल्याः एकादशं संशोधनं वित्त-मन्त्रालयस्य सहमतिप्राप्त्यर्थं प्रेषितम् अस्ति। प्रस्तावितव्यवस्थानुसारं माध्य-मिकस्तरस्य प्रथमश्रेण्याः शिक्षकाः ५० लक्षनेपालीरूप्यकाणां यावत्, द्वितीय-श्रेण्याः शिक्षकाः च ४० लक्षनेपाली-रूप्यकाणां यावत् मूल्यस्य वाहनं क्रेतुं शक्नुवन्ति।
एवमेव माध्यमिकस्तरस्य तृतीयश्रेण्याः, निम्नमाध्यमिकस्तरस्य तथा प्राथमिक-स्तरस्य सर्वश्रेणिणां शिक्षकाः ४ लक्षनेपालीरूप्यकाणां यावत् मूल्यस्य द्विचक्रिकां क्रेतुं शक्नुवन्ति। नियमावल्यां प्रावधानं कृतम् अस्ति यत् धनागारेण माध्यमेन वाहनक्रयणार्थं स्वीकृतस्य ऋणस्य पर्यायाणां व्याजस्य ८० प्रतिशतं यावत् राशिं नेपालसर्वकारः अनुदानरूपेण वहिष्यति।
शिक्षकैः अवशिष्टस्य २० प्रतिशतस्य राशेः व्यवस्था स्वयमेव करणीया भविष्यति। तदनन्तरं ते वाहनं क्रेतुं शक्नुवन्ति। प्रस्तावानुसारं शिक्षकस्य सेवायां कार्यरतत्वस्य अवधिपर्यन्तं सम्बन्धितेन धनागारेण निर्धारितकिस्तानां व्याजं सर्वकारः वहिष्यति।
Hindusthan Samachar / Divya Ranjan