Enter your Email Address to subscribe to our newsletters

मुम्बई, ९ अक्टोबरमासः (हि.स.)। अभिनेता राजकुमाररावस्य आगामीचलच्चित्रं ‘प्रहारः : द उज्ज्वल निकम स्टोरी’ इत्येतत् प्रति दर्शकानाम् उत्सुकता वर्धते। चलच्चित्रस्य पूर्वदृश्यचित्रं प्रसारितम् अनन्तरं निर्मातृभिः इदानीम् अस्य नूतनं गीतं ‘तुझ में बसी मेरी जान’ इति प्रसारितम्। गीतस्य दृश्येषु राजकुमाररावस्य वामिकागब्बी इत्यनया सह सुन्दरं युगलं दृश्यते। अनयोः प्रेमानुरागः भावपूर्णाः क्षणाः च गीतम् विशेषं कुर्वन्ति।
टी-सीरीज् इत्यस्य संस्थायाः माध्यमेन प्रसारितस्य अस्य गीतस्य सङ्गीतं प्रीतमः रचितवान्, गीतस्य शब्दान् च अमिताभभट्टाचार्यः लिखितवान्। श्रेया-घोषालस्य सोनूनिगमस्य च मधुराभ्यां स्वराभ्यां गीतं प्रेमपूर्णं रूपं प्राप्तम्। गीतस्य दृश्यचित्रे चलच्चित्रस्य उभयोः प्रमुखपात्रयोः विवाहस्य तत्पश्चात् जीवनस्य च सुन्दराः क्षणाः प्रदर्शिताः सन्ति। सङ्गीतस्य, भावपूर्णशब्दानां, कलाकारयोः सुन्दर-युगलस्य च माध्यमेन तयोः सम्बन्धस्य गाम्भीर्यं चित्रपटे प्रस्तुतं कर्तुं प्रयासः कृतः अस्ति।
मैडॉक फिल्म्स् इत्यस्य संस्थायाः निर्माणे ‘प्रहारः : द उज्ज्वल निकम स्टोरी’ इति जीवनचरिताधारितं नाट्यप्रधानं चल-च्चित्रम् अस्ति। अस्मिन् राजकुमाररावः भारतीयस्य अधिवक्तुः उज्ज्वलनिकमस्य भूमिकां निर्वहति। चलच्चित्रस्य निर्देशनम् अविनाश-अरुणः कृतवान्। अस्य कथा २६/११ मुम्बई-आतङ्कवाद्याक्रमणानां अभियुक्तस्य अजमलकसाबस्य मृत्युदण्डं सुनिश्चितं कर्तुं कृते विधिसङ्घर्षे आधारितास्ति। चलच्चित्रे एकतः विधि-सङ्घर्षः न्यायप्राप्त्यर्थं च कृतः प्रयासः दृश्यते, अपरतः नूतनं गीतं कथायाः भावनात्मकपक्षम् अपि प्रकाशयति।
Hindusthan Samachar / Divya Ranjan