वित्तमन्त्री निर्मला सीतारमणः सिङ्गापुरं प्राप्तवती, वैश्विकनिवेशकैः सह महत्त्वपूर्णासु गोष्ठीषु भागं ग्रहीष्यति
नवदिल्ली, ९ अक्टोबरमासः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः त्रिदिवसीयस्य आधिकारिकस्य प्रवासस्य कृते शुक्रवासरे सिङ्गापुरं प्राप्तवती। अक्टोबरमासस्य ९ तः ११ दिनाङ्कपर्यन्तं प्रवासकाले वित्तमन्त्री सिङ्गापुरस्य शीर्षनेतृभिः, वैश्विकनिवेशक
चांगी इंटरनेशनल एयरपोर्ट पर भारत के हाई कमिश्नर शिल्पक अंबुले ने वित्त मंत्री का किया स्वागत


नवदिल्ली, ९ अक्टोबरमासः (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः त्रिदिवसीयस्य आधिकारिकस्य प्रवासस्य कृते शुक्रवासरे सिङ्गापुरं प्राप्तवती। अक्टोबरमासस्य ९ तः ११ दिनाङ्कपर्यन्तं प्रवासकाले वित्तमन्त्री सिङ्गापुरस्य शीर्षनेतृभिः, वैश्विकनिवेशकैः, उद्योगजगतः प्रमुखैः च सह उच्चस्तरीयाः गोष्ठीः करिष्यति। एतासां गोष्ठीनाम् उद्देश्यं द्विपक्षीयव्यापारसम्बन्धान् निवेश-सम्बन्धान् च सुदृढान् कर्तुम् अस्ति।

वित्तमन्त्रालयेन सामाजिकमाध्यमे ‘एक्स’ इत्यत्र प्रकाशितेन सन्देशेन सूचितं यत् केन्द्रीयवित्तमन्त्री तथा निगमकार्याणां मन्त्री निर्मला सीतारमण इत्यस्याः सिङ्गापुरस्य चाङ्गी-अन्ताराष्ट्रिय-विमानपत्तने अद्य भारतस्य उच्चायुक्तेन शिल्पक-अम्बुले इत्यनेन स्वागतं कृतम्। निर्मला सीतारमणः त्रिदिवसीयस्य आधिकारिकप्रवासस्य अवधौ सिङ्गापुरस्य नेतृभिः वैश्विकनिवेशकैः च सह मिलिष्यति।

अस्मिन् प्रवासे सीतारमणः सिङ्गापुरस्य शीर्षस्थैः सर्वकारीयनेतृभिः सह मिलिष्यति। सा व्यापारिनिवेशकसमुदायस्य वरिष्ठ-सदस्यैः वैश्विकसंस्थागतनिवेशकैः च सह चर्चां करिष्यति। मन्त्रालयस्य अनुसारं सीतारमणः सिङ्गापुरस्य राष्ट्रपतिना थरमन् षण्मुगरत्नम् इत्यनेन, प्रधान-मन्त्रिणा लॉरेन्स-वोङ्ग इत्यनेन, उपप्रधानमन्त्रिणा गन्-किम्-योङ्ग इत्यनेन, विदेशमन्त्रिणा विवियन-बालकृष्णन् इत्यनेन च सह मिलिष्यति।

वित्तमन्त्रालयस्य अनुसारं निवेशकैः सह संवादस्य अन्तर्गतं सीतारमणः ‘हेज-फण्ड’ तथा ‘पोर्टफोलियो-फण्ड’ इत्येतयोः प्रबन्धकैः सह आयोजितायां गोलमेज-गोष्ठ्यां भागं ग्रहीष्यति। तदतिरिक्तं सा निवेशकैः, वित्तीयसंस्थाभिः, उद्योगजगतः प्रमुखैः च सह सर्वकार-व्यापारसम्बन्धिन्यः अनेकाः गोष्ठय: करिष्यति।

उल्लेखनीयं यत् भारते प्रत्यक्षविदेशीय-निवेशस्य प्रमुखतमः स्रोतः सिङ्गापुरम् अस्ति। २००० तमस्य वर्षस्य एप्रिलमासात् २०२६ तमस्य वर्षस्य मार्चमासपर्यन्तं सिङ्गापुरात् भारते १९४.६८ अरब-अमेरिकीयडॉलरमितः कुलनिवेशः आगतः। जीआईसी तथा टेमासेक इत्यादयः सिङ्गापुरे स्थिताः संस्थागतनिवेशकाः भारतीयार्थव्यवस्थायाः विविधेषु क्षेत्रेषु बृहद् निवेशं कृतवन्तः।

Hindusthan Samachar / Divya Ranjan