Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ९ अक्टोबरमासः (हि.स.)। केन्द्रीयवित्तमन्त्री तथा निगमकार्याणां मन्त्री निर्मला सीतारमणः शुक्रवासरे सिङ्गापुरस्य राष्ट्रपतिना थर्मन् शनमुगरत्नम् इत्यनेन प्रधानमन्त्रिणा लॉरेन्स वोंग इत्यनेन च सह मेलनं कृतवती। अस्मिन् अवसरे उभयोः देशयोः मध्ये सहयोगस्य अधिकं सुदृढीकरणविषये चर्चा अभवत्। सीतारमणः अक्टोबरमासस्य ९ दिनाङ्कात् ११ दिनाङ्कपर्यन्तं त्रिदिवसीयायाम् आधिकारिकयात्रायां सिङ्गापुरं गतवती अस्ति।
वित्तमन्त्रालयेन सामाजिकमाध्यमे ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे उक्तं यत् सीतारमणः सिङ्गापुरस्य राष्ट्रपतिना तस्य आधिकारिकनिवासस्थाने ‘दि इस्ताना’ इत्यत्र मेलनं कृतवती। अस्मिन् साक्षात्कारे व्यापकस्य सामरिकसहभागीसम्बन्धस्य अग्रे विकासाय द्विपक्षीयसहयोगस्य च सुदृढीकरणाय विविधोपायानां विषये विचारविनिमयः अभवत्।
अपरतः सिङ्गापुरस्य प्रधानमन्त्री वोंगः ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे अवदत् यत् भारतस्य वित्तमन्त्रिण्या निर्मला सीतारमणया सह वैश्विक-आर्थिक-परिवर्तनानां वर्तमानस्य ऊर्जासङ्कटस्य च समाधानोपायानां विषये सार्थकचर्चा अभवत्। सीतारमणया भारतस्य वर्तमान-विकासक्रमस्य निवेशस्य सहयोगस्य च नूतनावसराणां विषये अपि सूचनाः प्रदत्ताः इति सः अवदत्।
वित्तमन्त्रालयस्य अनुसारं सीतारमणः सिङ्गापुरस्य विदेशमन्त्रिणा विवियन बालकृष्णन् इत्यनेन सह अपि मेलनं कृतवती। बालकृष्णन् अवदत् यत् सिङ्गापुरस्य निर्माणीसंस्थानां कृते भारतस्य दीर्घकालीनविकाससम्भावनासु सहभागितायाः अनेकाः अवसराः सन्ति। सः सीतारमणस्याः सिङ्गापुरयात्रायाः सफलतायै शुभकामनाम् अपि अयच्छत्।
उल्लेखनीयम् अस्ति यत् भारतं प्रति प्रत्यक्षविदेशीयनिवेशस्य सर्वबृहत्तमः स्रोतः सिङ्गापुरदेशः अस्ति। २००० तमस्य वर्षस्य एप्रिलमासात् २०२६ तमस्य वर्षस्य मार्चमासपर्यन्तं सिङ्गापुरात् भारतं प्रति कुलम् १९४.६८ अरब-अमेरिकीडॉलर-परिमितः प्रत्यक्षविदेशीयनिवेशः आगतः। जीआईसी तथा टेमासेक इत्यादीनां सिङ्गापुरस्य संस्थागतनिवेशकानां भारतीय-अर्थव्यवस्थायाः विविधक्षेत्रेषु महत्त्वपूर्णः निवेशः अस्ति।
Hindusthan Samachar / Divya Ranjan