Enter your Email Address to subscribe to our newsletters

मैनचेस्टरम्, ९ अक्टोबरमासः (हि.स.)। मैनचेस्टर यूनाइटेड-दलस्य अग्रपङ्क्ति-क्रीडकः अमाद डियालो अवदत् यत् वर्तमानसत्रे तस्य दलस्य प्रदर्शनं अपेक्षानुरूपं न अभवत्। प्रीमियर लीग्-प्रतियोगितायां स्वस्थानस्य सुधाराय दलस्य निरन्तरं श्रेष्ठं प्रदर्शनं कर्तव्यम्। मैनचेस्टर यूनाइटेड-सदृशेन दलेन सर्वदा उपाधिप्राप्तये प्रतिस्पर्धा करणीया इति सः स्पष्टम् अकरोत्।
जियोस्टार-संस्थायै दत्ते साक्षात्कारे डियालो अवदत् यत् अङ्कतालिकायां द्वादशमे स्थाने स्थितिः तस्य दलस्य वास्तविकक्षमतायाः अनुरूपा नास्ति। मैनचेस्टर यूनाइटेड-दलं शनिवासरे, अक्टोबरमासस्य १० दिनाङ्के, ओल्ड ट्रैफर्ड-क्रीडाङ्गणे टॉटेनहम् हॉट्स्पर्-दलेन सह स्पर्धिष्यते। अस्मिन् मुकाबले विजयं प्राप्य दलं पुनः विजयमार्गे प्रत्यागन्तुम् इच्छति।
डियालो अवदत्, “वयं सत्रस्य आरम्भं तादृशरीत्या न कृतवन्तः, यादृशी अस्माकम् अपेक्षा आसीत्। एकः विजयः द्वौ च अनिर्णीतौ परिणामौ मैनचेस्टर यूनाइटेड-सदृशस्य दलस्य कृते पर्याप्तौ न स्तः। वयम् अधुना अङ्कतालिकायां द्वादशमे स्थाने स्मः, एतत् स्थानम् अस्माकं नास्ति। तथापि सत्रम् अधुना दीर्घम् अस्ति, किमपि अन्तिमरूपेण निर्धारितं नास्ति। अस्माभिः प्रत्येकस्मिन् क्रीडामुकाबले ध्येयं दातव्यम्, अभ्याससमये कठिनं परिश्रमं करणीयम्, अनिर्णीतपरिणामान् विजये परिवर्तयितुम् आरम्भः करणीयः च।”
सः अग्रे अवदत्, “किं वयं उपाधिं जेतुं शक्नुमः? अधुना सत्रस्य आरम्भः एव अस्ति, तथापि अस्माभिः स्वं प्रति सत्यताभि: भवितव्यम्। उपाधिप्रतिस्पर्धायां सम्मिलितुं वयं पर्याप्तं सुधारं कुर्मः तथा निरन्तरं उत्तमं प्रदर्शनं च कुर्मः इति आवश्यकम्। मैनचेस्टर यूनाइटेड् तादृशं दलम् अस्ति, येन सर्वदा उपाधिप्राप्तये संघर्षः करणीयः। वयं तम् एव लक्ष्यं पुरस्कृत्य अग्रे गमिष्यामः तथा सत्रस्य अन्ते वयं कस्मिन् स्थाने स्मः इति द्रक्ष्यामः।”
इङ्ग्लैण्डदेशे स्वस्य प्रारम्भिकदिनानि स्मरन् डियालो अवदत् यत् नूतनदेशस्य वातावरणे च अनुकूलितुं तस्मै समयः आवश्यकः अभवत्। सः २०२१ तमे वर्षे प्रीमियर लीग्-प्रतियोगितायां क्रीडितुम् इङ्ग्लैण्डदेशम् आगतवान्।
सः अवदत्, “यदा अहं २०२१ तमे वर्षे इङ्ग्लैण्डम् आगतवान्, तदा प्रारम्भिकाः कतिपयाः सप्ताहाः मम कृते विचित्राः आसन्। नूतनः देशः, नूतनं वातावरणम्, आङ्ग्लभाषां वक्तुम् असमर्थता, विभिन्नाः संस्कृतयः च—अत्रत्ये वातावरणे अनुकूलितुं मह्यं समयः अभवत्। मैनचेस्टर यूनाइटेड्-दले सम्मिलितः सन् अहं सर्वप्रथमं स्वयम् अवदम्, ‘ईश्वरस्य धन्यवादः।’ यूनाइटेड्-दलाय क्रीडनं मम स्वप्नम् आसीत्।”
डियालो अवदत् यत् दले सम्मिलितस्य अनन्तरं तस्य मेलनं स्वस्य आदर्श-क्रीडकेन पॉल पोग्बा इत्यनेन सह अभवत्। सः पोग्बा इत्यनेन सह छायाचित्रं ग्रहीतुं अनुरोधं कृतवान् आसीत्। अनन्तरं तस्मै तेन सह क्रीडितुम् अपि अवसरः प्राप्तः। डियालो एतत् अनुभवम् अवर्णनीयम् इति उक्तवान्।
डियालो २०२४ तमे वर्षे एफए-कप्-प्रतियोगितायाः क्वार्टर्-फाइनल्-स्पर्धायां लिवरपूल्-दलस्य विरुद्धम् अतिरिक्त-समये कृतं निर्णायकं गोल्-प्रहारं स्वकीयेषु सर्वाधिकस्मरणीयेषु क्षणेषु अन्यतमम् अमन्यत। सः अवदत् यत् ओल्ड ट्रैफर्ड-क्रीडाङ्गणे स्वसमर्थकानां सम्मुखे प्रबलप्रतिद्वन्द्विदलस्य विरुद्धं निर्णायकं गोल्-प्रहारं करणम् अत्यन्तं भावुकः अनुभवः आसीत्।
सः अवदत्, “एफए-कप्-प्रतियोगितायाः क्वार्टर्-फाइनल्-स्पर्धायां विजयीगोल्-प्रहारः मम क्रीडाजीवनस्य महत्त्वपूर्णेषु क्षणेषु अन्यतमः अस्ति। सः अपि लिवरपूल्-सदृशस्य प्रबलप्रतिद्वन्द्विदलस्य विरुद्धम्, ओल्ड ट्रैफर्ड-क्रीडाङ्गणे, स्वसमर्थकानां सम्मुखे च आसीत्। तस्मिन् समये भावनाः चरमसीमायाम् आसन्। उत्सवम् आचरितुं मया स्वस्य क्रीडावस्त्रं निष्कासितम्, यतः मम पूर्वमेव पीतपत्रं प्राप्तम् आसीत् इति विस्मृतवान्। ततः मह्यं रक्तपत्रं प्राप्तम्, किन्तु मम मतम् अस्ति यत् एतावत् श्रेष्ठं रक्तपत्रं मया पूर्वं कदापि न प्राप्तम्।”
डियालो मैनचेस्टर यूनाइटेड्-दलस्य पूर्व-अग्रपङ्क्तिक्रीडकस्य रूड् वान् निस्टलरॉय इत्यस्य मार्गदर्शनस्य अपि प्रशंसाम् अकरोत्। सः अवदत् यत् वान् निस्टलरॉय तस्मै क्रीडाङ्गणे सञ्चलनस्य गोल्-प्रहारस्य च तकनीकविषये उपयोगिनः परामर्शान् दत्तवान्, येन तस्य क्रीडायां सुधारः अभवत्।
टॉटेनहम्-दलेन सह अग्रिमां स्पर्धां महत्त्वपूर्णम् इति वर्णयन् डियालो अवदत् यत् उभयोः दलयोः मध्ये ऐतिहासिकी प्रतिद्वन्द्विता अस्ति। तस्य मतानुसारं स्वगृहे क्रीडनस्य लाभम् उपयुज्य यूनाइटेड्-दलेन त्रयः अङ्काः प्राप्तव्याः। एषः विजयः दलस्य अङ्कतालिकायां ऊर्ध्वं गन्तुं तथा आगामीमुकाबलानां कृते आत्मविश्वासं प्राप्तुं च सहायकः भविष्यति।
मैनचेस्टर यूनाइटेड्-दलस्य टॉटेनहम् हॉट्स्पर-दलेन सह स्पर्धा शनिवासरे, अक्टोबरमासस्य १० दिनाङ्के, भारतीय-समयानुसारं रात्रौ १० वादने आरप्स्यते। अस्य साक्षात्प्रसारणं जियोहॉटस्टार्-माध्यमेन स्टार स्पोर्ट्स्-वाहिन्यां च भविष्यति।
Hindusthan Samachar / Divya Ranjan