Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, ९ अक्टोबरमासः (हि.स.)। राष्ट्रियसहकारितासम्मेलने भागं ग्रहीतुं जगदलपुरम् आगतस्य भारतसर्वकारस्य सहकारितासचिवस्य डॉ. आशीषभूटानेः नेतृत्वे केन्द्रसर्वकारस्य विभिन्नराज्यानां च वरिष्ठाधिकारिणां प्रतिनिधिमण्डलेन शुक्रवासरे जगदलपुरस्थितस्य ‘कैफे पण्डुम्’ इत्यस्य भ्रमणं कृतम्। हिंसामार्गं त्यक्त्वा समाजस्य मुख्यधारायां पुनः सम्मिलितैः पुनर्वासितयुवभिः सञ्चालितम् इदं भोजनालयं सम्प्रति बस्तरक्षेत्रे स्वावलम्बनस्य, पुनर्वासस्य सामाजिक-परिवर्तनस्य च उदाहरणं जातम् अस्ति।
‘कैफे पण्डुम्’ इत्यस्य भ्रमणावसरे बस्तरजनपदस्य जनपदाधिकारी आकाश-छिकाराः भोजनालयस्य सञ्चालनस्य, तस्य परिकल्पनायाः तथा तेन सम्बद्धानां परिवाराणाम् आजीविका-संवर्धनार्थं क्रियमाणानां प्रयासानां च विषये विस्तृतां सूचनां प्रदत्तवान्। सः अवदत् यत् कथम् एष: प्रयत्न: पीडितेभ्यः समाजस्य मुख्यधारायां प्रत्यागतेभ्यश्च सम्मानपूर्णं जीवनं आर्थिकसम्बलं च प्रददाति। अधिकारिणः भोजनालयस्य उत्तमव्यवस्थाः, आतिथ्यं तथा स्थानीयस्तरे प्रारब्धस्य सामाजिक-आर्थिकनवाचारस्य मुक्तकण्ठेन प्रशंसाम् अकुर्वन्। ते युवभिः सह चर्चाम् अपि कृत्वा तेषाम् उत्साहवर्धनम् अकुर्वन्।
भोजनालयस्य शान्तेन वातावरणेन, आत्मीयेन आतिथ्येन स्वादिष्टैः व्यञ्जनैश्च प्रभाविताः अधिकारिणः अवदन् यत् एषः भोजनालयः अत्यन्तं सुन्दररीत्या सूक्ष्मबुद्ध्या च परिकल्पितः अस्ति। अत्र सरलतया प्राकृतिकवर्णैः सह जीवन्ततायाः अपि सुन्दरः समन्वयः दृश्यते। ते अत्रत्यस्य वातावरणस्य, भोजनस्य तथा भोजनालयेन सम्बद्धस्य सर्वस्य प्रशंसाम् अकुर्वन्। राष्ट्रियस्तरस्य वरिष्ठ-प्रशासनिक-अधिकारिणाम् अस्मिन् भ्रमणे तैः प्रदत्तया सकारात्मकप्रतिक्रियया च भोजनालयं सञ्चालयतां यूनां मध्ये महत् उत्साहः दृष्टः।
Hindusthan Samachar / Divya Ranjan