मोदीसर्वकारेण बम्बगोलिकानां च ध्वनीन् शमयित्वा बुलेटरेलयानानां युगस्य शुभारम्भः कृतः इति प्रह्लादजोशी अवदत्।
बेंगलुरुः, 01 नवंबरमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री तथा उपभोक्ताकार्यविभागमन्त्री प्रह्लादजोशी अवदत् यत् देशे रेलयानक्षेत्रे क्रान्तिकारीपरिवर्तनानि भवन्ति। केन्द्रसर्वकारेण आतङ्कवादिनां बम्बविस्फोटानां गोलिकानां च ध्वनीन् शमयित्वा बुलेटरेलया
ಕೇಂದ್ರ ಸಚಿವ ಪ್ರಹ್ಲಾದ ಜೋಶಿ


बेंगलुरुः, 01 नवंबरमासः (हि.स.)।

केन्द्रीयशिक्षामन्त्री तथा उपभोक्ताकार्यविभागमन्त्री प्रह्लादजोशी अवदत् यत् देशे रेलयानक्षेत्रे क्रान्तिकारीपरिवर्तनानि भवन्ति। केन्द्रसर्वकारेण आतङ्कवादिनां बम्बविस्फोटानां गोलिकानां च ध्वनीन् शमयित्वा बुलेटरेलयानानां युगस्य शुभारम्भः कृतः।

सः रविवासरे बेङ्गलूरुनगरस्य सर् एम. विश्वेश्वरय्या रेलस्थानकस्य अन्तिमस्थानके बेङ्गलूरु-मुम्बई वन्देभारतशयनयानस्य हरितध्वजं प्रदर्श्य आयोजिते कार्यक्रमे सम्बोधनं कुर्वन् एतद् उक्तवान्। सः अवदत् यत् रेलयात्रिकाणां सुरक्षायाः प्राथमिकतां दृष्ट्वा ‘कवच’ इति स्वचालितरेलयानसुरक्षाप्रौद्योगिकी कार्यान्विता क्रियते। रेलयानदुर्घटनानां निवारणे एषा प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

केन्द्रीयमन्त्री जोशी अवदत् यत् देशे सर्वत्र वन्देभारतरेलयानानां सेवाविस्तारः अभवत् तथा सम्प्रति १५० तः अधिकानि रेलयानानि सञ्चालितानि सन्ति। रेलपरिवहने गतिः, सुरक्षा, आधुनिकसुविधाः च इत्येतेषु केन्द्रसर्वकारः विशेषं ध्यानं ददाति।

तेन उक्तं यत् बेङ्गलूरुनगरं मुम्बईनगरं च देशस्य प्रमुखे आर्थिककेन्द्रे स्तः। एतयोः नगरयोः मध्यं सम्पर्कं सुदृढं कर्तुं वन्देभारतशयनयानं महत्त्वपूर्णं सिद्धं भविष्यति। दक्षिणभारतस्य प्रथमं वन्देभारतशयनयानं प्रायः १११८ किलोमीटरमितं दूरत्वं केवलं षोडशघण्टासु अतिक्रमिष्यति। अनेन यात्रासमये प्रायः अर्धभागस्य बचतिः भविष्यति।

सः अवदत् यत् कर्नाटकराज्ये अपि उच्चगतिरैलमार्गस्य विकासाय केन्द्रसर्वकारेण योजना निर्मिता अस्ति। तुमकूरु, हावेरी, राणेबेन्नूरु तथा बेलगावी इत्यादीनि राज्यस्य अनेकानि क्षेत्राणि संयोजयितुं प्रस्तावाः सन्ति।

प्रधानमन्त्रिणः मोदीवर्यस्य नेतृत्वे केन्द्रसर्वकारः कर्नाटकराज्ये रेलविकासाय विशेषप्राथमिकतां ददाति इति सः अवदत्। वर्षे २००८ तमे राज्याय रेलविकासार्थं प्रायः सप्तशतकोटिरूप्यकाणाम् अनुदानं दीयते स्म, परन्तु अधुना प्रतिवर्षं सप्तसहस्रतः अष्टसहस्रकोटिरूप्यकाणि यावत् अनुदानं प्रदीयते।

तेन सूचितं यत् २०२६-२७ वित्तवर्षे कर्नाटकराज्याय ७७४८ कोटिरूप्यकाणि आवण्टितानि सन्ति। राज्ये रेलसम्पर्कस्य विकासाय निरन्तरं सहकारितां प्रददतः प्रधानमन्त्रिणः, रेलमन्त्रिणः तथा केन्द्रीय राज्यमन्त्रिणः सोमण्णावर्यस्य च प्रति कन्नडजनानां पक्षतः सः कृतज्ञतां प्रकटितवान्।

रेलमन्त्रिणः वैष्णवस्य कार्यशैल्याः प्रशंसां कुर्वन् सः अवदत् यत् प्रौद्योगिकीक्षेत्रस्य पृष्ठभूमिं प्रशासनिकानुभवं च धारयन् रेलमन्त्री रेलक्षेत्रे अनेकानि महत्त्वपूर्णानि सुधारकार्याणि कार्यान्वयति। देशे सौरऊर्जोत्पादनस्य प्रगतेः उल्लेखं कुर्वन् सः अवदत् यत् पूर्वं भारतस्य सौरऊर्जोत्पादनक्षमता केवलं २.६ गीगावाट् आसीत्, या अधुना वर्धित्वा १७० गीगावाट् तः अधिका अभवत्।

अस्मिन्नवसरे केन्द्रीयमन्त्री एच. डी. कुमारस्वामी, वी. सोमण्णः, शोभा करन्दलाजे, सांसदः पी. सी. मोहनः, डॉ. सी. एन. मञ्जुनाथः, तेजस्वी सूर्या, लहरसिंहः सिरोया, जग्गेशः, पूर्वसांसदः उमेशजाधवः इत्यादयः अनेकाः गणमान्यजनाः रेलविभागस्य अधिकारिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani