Enter your Email Address to subscribe to our newsletters

हिन्दीचलच्चित्रजगतःक अभिनेता शाह-रुखखानः अद्य स्वस्य जन्मदिनम् आचरति। १९६५ तमस्य वर्षस्य नवम्बरमासस्य २ दिनाङ्के नवदिल्ली-नगरे जातः शाहरुखः दूरदर्शनधारावाहिकैः अभिनयस्य आरम्भं कृतवान्। स्वस्य परिश्रमेण, प्रतिभया विशिष्टाभिनयशैल्या च सः विश्वे सर्वत्र प्रसिद्धिम् अवाप्तवान्। प्रशंसकाः तं स्नेहेन ‘किङ्ग खान्’ तथा ‘बॉलीवुडस्य प्रणयराजा’ इति सम्बोधयन्ति।
शाहरुखः स्वस्य अभिनयजीवनस्य आरम्भं दूरदर्शनधारावाहिकैः कृतवान्। ‘फौजी’ तथा ‘सर्कस’ इत्यादिभिः धारावाहिकैः सः गृहे गृहे प्रसिद्धिम् अवाप्तवान्। ततः १९९२ तमे वर्षे ‘दीवाना’ इति चलचित्रेण सः बृहत्तरे चलचित्रपटले पदार्पणम् अकरोत्। प्रथमेन एव चलचित्रेण सः दर्शकानां ध्यानम् आकर्षितुं सफलः अभवत्।
अभिनयजीवनस्य प्रारम्भिकेषु वर्षेषु शाहरुखः ‘बाजीगर’, ‘डर’ तथा ‘अंजाम’ इत्यादिषु चलचित्रेषु नकारात्मकभूमिकाः निर्वह्य स्वकीयाम् अभिनयक्षमतां प्रदर्शितवान्। तथापि शीघ्रमेव तस्य परिचयः प्रणयनायकत्वेन भवितुम् आरब्धः। ‘दिलवाले दुल्हनिया ले जाएंगे’, ‘दिल तो पागल है’, ‘कुछ कुछ होता है’, ‘देवदास’, ‘कल हो ना हो’ तथा ‘वीर-जारा’ इत्यादीनि चलचित्राणि तं प्रणयप्रधानचलच्चित्राणां प्रमुखेषु अभिनेतृषु अन्तर्भावितवन्ति।
शाहरुखः स्वकीयां छविं केवलं प्रणयप्रधानभूमिकासु एव सीमितां न कृतवान्। ‘स्वदेस’, ‘चक दे! इंडिया’ तथा ‘माई नेम इज खान’ इत्यादिषु चलचित्रेषु गम्भीराः संवेदनशीलाश्च भूमिकाः निर्वह्य सः दर्शकान् प्रभावितवान्। अपरतः ‘डॉन’ तथा ‘रईस’ इत्यादिषु चलचित्रेषु तस्य भिन्नशैल्याः अपि बहुधा प्रशंसा अभवत्।
त्रिंशद्वर्षेभ्यः अधिकं दीर्घे अभिनयजीवने शाहरुखः अभिनयेन सह निर्मातारूपेण अपि स्वकीयां विशिष्टां परिचितिम् निर्मितवान्। तस्य लोकप्रियता भारतस्य सीमाः अतिक्रम्य विश्वस्य अनेकदेशान् यावत् प्रसृता अस्ति। तस्य चलचित्रैः, संवादैः पात्रैश्च अन्ताराष्ट्रियस्तरे भारतीय-चलच्चित्रजगतः परिचयस्य सुदृढीकरणे योगदानं प्रदत्तम्।
महत्त्वपूर्णाः घटनाः
१७७४ - ब्रिटिशभारते सेनायाः प्रधानसेनापतिः आङ्ग्लाधिकारी रॉबर्ट क्लाइवः इङ्ग्लैण्डदेशे आत्महत्याम् अकरोत्।१८३४ - ‘एटलस’ नामकं पोतं भारतीयश्रमिकान् नीत्वा मॉरिशसदेशम् अवाप्तम्। तत्र अयं दिवसः आप्रवासीदिवसरूपेण आचर्यते।१८३५ - अमेरिकादेशस्य मूलनिवासिनां विभिन्नसमूहानां मध्ये फ्लोरिडाराज्यस्य ओसिओला-प्रदेशे द्वितीयं सेमिनोलयुद्धम् आरब्धम्। एतत् युद्धं फ्लोरिडायुद्धम् इत्यपि प्रसिद्धम्।१८४१ - अकबरखानेन अफगानिस्तानदेशे शाहशुजायाः विरुद्धं विद्रोहः कृतः, यस्मिन् सः सफलताम् अवाप्तवान्।१८५२ - फ्रैंकलिन पियर्सः अमेरिकादेशस्य राष्ट्रपतिः अभवत्।१९१४ - रूसदेशेन तुर्कीदेशस्य विरुद्धं युद्धस्य घोषणा कृता।१९१७ - ब्रिटेनदेशेन बाल्फोरघोषणापत्रं प्रकाशितम्। अनेन फलस्तीनदेशे यहूदिजनानां कृते एकं गृहप्रदेशं स्थापयितुं सहमतिः प्रदत्ता।१९३६ - बीबीसी-संस्थया प्रथमस्य दूरदर्शन-वाहिन्याः प्रसारणम् आरब्धम्।१९४९ - हॉलैण्डदेशेन इण्डोनेशियादेशेन च हेग-सन्धौ हस्ताक्षराणि कृतानि।१९५० - जॉर्ज बर्नार्ड शॉ इत्यस्य ९७ वर्षे वयसि निधनम् अभवत्।१९५१ - मिस्रदेशे ब्रिटेनदेशस्य विरुद्धं जातान् विरोधप्रदर्शनान् नियन्त्रयितुं प्रायः षट्सहस्रं ब्रिटिशसैनिकाः प्रेषिताः।१९६३ - दक्षिणवियतनामस्य राष्ट्रपतिः न्गो दिन्ह दीमः विद्रोहिभिः सत्तापरिवर्तनस्य समये हतः।१९७६ - जिमी कार्टरः अमेरिकादेशस्य ३९ तमः राष्ट्रपतिः अभवत्। २००२ तमे वर्षे सः नोबेलशान्तिपुरस्कारेण सम्मानितः।१९८४ - अमेरिकादेशे १९६२ तमवर्षात् प्रथमवारं वेल्मा बारफील्ड् नाम्नी महिलायै मृत्युदण्डः दत्तः।१९८६ - बेरूतनगरे उग्रवादिभिः बन्धकरूपेण गृहीतः अमेरिकी नागरिकः डेविड जैकोब्सनः मुक्तः कृतः।१९९९ - पाकिस्तानस्य राजधानी इस्लामाबादे संयुक्तराष्ट्रसङ्घस्य अमेरिकीकेन्द्राणां च उपरि अज्ञातजनैः प्रक्षेपास्त्रैः आक्रमणं कृतम्।२००० - पश्चिम एशियायां हिंसायाः निवारणाय एकस्मिन् उपायविषये सहमतिः अभवत्।२००१ - अफगानिस्तानदेशे विशेषसैनिकानां सङ्ख्यां वर्धयितुं अमेरिकया निर्णयः कृतः।२००१ - श्रीपादयेसो नाईकः केन्द्रीयमन्त्रिमण्डले पोतपरिवहनमन्त्रिपदं स्वीकृतवान्।२००२ - मुफ्ती मोहम्मद सईदः जम्मू-कश्मीरस्य मुख्यमन्त्रिपदं स्वीकृतवान्।२००४ - चीनदेशस्य हेनानप्रान्ते जातीयसङ्घर्षे २० जनाः मृताः।२००५ - गुलामनबी आजादः जम्मू-कश्मीरस्य मुख्यमन्त्रिपदं स्वीकृतवान्।२००७ - अन्ताराष्ट्रिय-अन्तरिक्षकेन्द्रे क्षतिग्रस्तान् सौरपक्षान् सम्यक् कृत्वा डिस्कवरी-अन्तरिक्षयानस्य यात्रिणः सुरक्षिततया पृथिवीं प्रत्यागतवन्तः।२००८ - केन्द्रसर्वकारेण सेवाविरामानन्तरं निवृत्तिवेतननिधितः धनं निष्कासयितुं प्रदत्ता सुविधा समाप्ता।२०२० - काबुलविश्वविद्यालये शस्त्रधारिभिः कृतस्य आक्रमणस्य फलस्वरूपं २५ जनाः हताः।२०२० - प्रियङ्का राधाकृष्णन् न्यूज़ीलैण्डदेशस्य भारतीयमूलस्य प्रथमः मन्त्रिणी अभवत्।
जन्म
१५३४ - गुरुरामदासः - सिखधर्मस्य चतुर्थः गुरुः।१८३३ - महेन्द्रलाल सरकारः - समाजसुधारकः तथा होम्योपैथिचिकित्सापद्धतेः प्रचारकः चिकित्सकः।१८७७ - आगाखानः तृतीयः - शियासम्प्रदायस्य निजारी इस्माइलीमतस्य आध्यात्मिकनेता।१८८३ - बसन्तकुमारदासः - असमप्रदेशस्य स्वतन्त्रतासेनानी तथा राजनेता।१८९७ - सोहराबमोदी - प्रसिद्धः भारतीयः अभिनेता तथा चलचित्रनिर्माता-निर्देशकः।१९२९ - राममोहनः - प्रसिद्धः भारतीयः चरित्राभिनेता।१९४० - ममताकालिया - साहित्यकारा।१९४१ - अरुणशौरिः - निर्भीकः भारतीयः पत्रकारः, बुद्धिजीवी, प्रसिद्धः लेखकः तथा राजनेता।१९६० - अनु मलिकः - हिन्दीचलच्चित्राणां सङ्गीतकारः गायकश्च।१९६५ - शाहरुखखानः - हिन्दीचलच्चित्राभिनेता।१९६९ - सञ्जीवबजाजः - बजाज फिनसर्वस्य अध्यक्षः प्रबन्धनिदेशकश्च।१९८२ - योगेश्वरदत्तः - भारतस्य प्रसिद्धः मल्लः कुश्ती-क्रीडापटुश्च।
निधनम्
१८८५ - अण्णासाहेब किर्लोस्करः - मराठी-रङ्गमञ्चे क्रान्तिं जनयिता प्रसिद्धः नाटककारः।१९६५ - रसूना सैद - द्वितीयविश्वयुद्धकाले सक्रियासु वीराङ्गनासु अन्यतमा।१९९० - भालचन्द्र दिगम्बर गरवारे - प्रसिद्धः भारतीयः उद्योगपतिः तथा गरवारे-समूहस्य संस्थापकः।२०१२ - श्रीरामशङ्कर अभ्यङ्करः - भारतीयमूलस्य अमेरिकीगणितज्ञः।
महत्त्वपूर्णः अवसरः
अन्ताराष्ट्रिय-रेडक्रॉस-दिवसः (सप्ताहः)।
Hindusthan Samachar / Divya Ranjan