अनवरतं चतुर्थमासेऽपि द्विलक्षकोटिरूप्यकाणाम् अधिकं जीएसटीसङ्ग्रहणम्, अक्टोबरमासे वार्षिकाधारेण २३ प्रतिशतस्य वृद्धिः।
नवदिल्ली, 01 नवंबरमासः (हि.स.)। अक्टोबरमासे वस्तूनां सेवायाश्च कररूपेण (जीएसटी) सर्वकारीयकोषे अभिलेखीयधनराशिः प्राप्ता। उत्सवकाले आर्थिकक्रियाकलापानां तीव्रतायाः विदेशेभ्यः आयातस्य च महतीं वृद्धिं दृष्ट्वा गतस्मिन् मासे देशस्य समग्रः जीएसटीसङ्ग्र
प्रतीकात्मक


नवदिल्ली, 01 नवंबरमासः (हि.स.)।

अक्टोबरमासे वस्तूनां सेवायाश्च कररूपेण (जीएसटी) सर्वकारीयकोषे अभिलेखीयधनराशिः प्राप्ता। उत्सवकाले आर्थिकक्रियाकलापानां तीव्रतायाः विदेशेभ्यः आयातस्य च महतीं वृद्धिं दृष्ट्वा गतस्मिन् मासे देशस्य समग्रः जीएसटीसङ्ग्रहः वार्षिकाधारेण २३ प्रतिशतं वर्धित्वा २.३१ लक्षकोटिरूप्यकाणां स्तरं प्राप्तवान्। विगतेषु चतुर्षु वर्षेषु एकस्मिन् मासे अभिलिखिता एषा जीएसटीसङ्ग्रहस्य सर्वाधिकवृद्धिदरः अस्ति। अक्टोबरमासस्य समाप्त्या सह अयं क्रमशः चतुर्थः मासः अभवत्, यस्मिन् सर्वकारस्य मासिककरसङ्ग्रहः द्विलक्षकोटिरूप्यकाणाम् अधिकः अभवत्।

अस्मिन् विषये उपलब्धानां आँकडानाम् अनुसारं वर्तमानस्य २०२६-२७ वित्तवर्षस्य अप्रैलमासे प्राप्तस्य २.४३ लक्षकोटिरूप्यकाणां अद्यावधि सर्वाधिकमासिकजीएसटीसङ्ग्रहस्य अनन्तरम् अक्टोबरमासस्य एषः आँकडा अस्मिन् वर्षे द्वितीयः सर्वाधिककरसङ्ग्रहः अभवत्। अस्मात् पूर्वं सितम्बरमासे जीएसटीतः प्राप्तायां आयायां प्रायः १४.७ प्रतिशतस्य वृद्धिः अभिलिखिता आसीत्।

गतस्मिन् अक्टोबरमासे जीएसटीसङ्ग्रहे अभिलिखितायाः महत्याः वृद्धेः विदेशीयविपणिभ्यः आयातेन अपि दृढं समर्थनं प्राप्तम्। अक्टोबरमासे आयातितवस्तुषु आरोपितस्य जीएसटी-करे वार्षिकाधारेण प्रायः ४२.२ प्रतिशतस्य महती वृद्धिः अभवत्। अस्याः वृद्धेः परिणामस्वरूपम् अस्मिन् मदे सङ्गृहीता धनराशिः वर्धित्वा ७२,२४६ कोटिरूप्यकाणि अभवत्। अपरतः देशान्तर्गतव्यापारिकक्रियाकलापानां अर्थात् आन्तरिकजीएसटीराजस्वस्य वृद्धिः तुलनात्मकरूपेण स्थिरा आसीत् तथा प्रायः १५.८ प्रतिशतं वर्धित्वा १.५९ लक्षकोटिरूप्यकाणि अभवत्। करप्रतिदायधनराशिं न्यूनीकृत्य सर्वकारस्य शुद्धजीएसटीराजस्वमपि २५.६ प्रतिशतं वर्धित्वा २.०३ लक्षकोटिरूप्यकाणां स्तरं प्राप्तवान्।

राज्यानां योगदानस्य विषये विचारयामः चेत्, आन्तरिककरसङ्ग्रहस्य दृष्ट्या महाराष्ट्रराज्यम् अन्यराज्यानाम् अपेक्षया अग्रणीम् अस्ति। महाराष्ट्रतः प्राप्तं करराजस्वं गतवर्षस्य तुलनया १३ प्रतिशतं वर्धित्वा ३५,१५० कोटिरूप्यकाणि अभवत्। तदनन्तरं कर्नाटकतः १५,९२२ कोटिरूप्यकाणि तथा गुजराततः १३,५१६ कोटिरूप्यकाणि कररूपेण प्राप्तानि। उत्तरप्रदेशस्य प्रदर्शनमपि अस्मिन् मासे उल्लेखनीयम् आसीत्, यतः अत्रतः १०,२३५ कोटिरूप्यकाणां जीएसटीसङ्ग्रहः अभवत्। उत्तरप्रदेशे अक्टोबरमासस्य जीएसटीसङ्ग्रहः गतवर्षस्य समानावधिना सह तुलनायां २४ प्रतिशतस्य वृद्धिं दर्शयति।

करसङ्ग्रहस्य वृद्धिप्रतिशतस्य दृष्ट्या अस्मिन् समये असमराज्यं सर्वेषाम् अग्रे आसीत्। अत्र करसङ्ग्रहे ४७ प्रतिशतस्य अभिलेखीयवृद्धिः अभवत् तथा सङ्ग्रहः १,९३४ कोटिरूप्यकाणि अभवत्। तथैव झारखण्डे मध्यप्रदेशे च क्रमशः ३१ प्रतिशतं २९ प्रतिशतं च वृद्धिः अभिलिखिता। तमिलनाडुराज्ये तु वृद्धेः गतिः अत्यन्तं मन्दः आसीत् तथा तत्र केवलं ३ प्रतिशतस्य सुधारः अभवत्। अपरतः हिमाचलप्रदेशः देशस्य एकमात्रं राज्यम् आसीत्, यत्र करसङ्ग्रहे २ प्रतिशतस्य न्यूनता अभिलिखिता।

---------------

Hindusthan Samachar / Dheeraj Maithani