Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 01 नवंबरमासः (हि.स.)।
लोकसभाध्यक्षः ओमबिरला मङ्गलवासरे केरलराज्यस्य तिरुवनन्तपुरे संसदः तथा राज्यानां केन्द्रशासितप्रदेशानां च विधानमण्डलानां लोकलेखासमितीनां सभापतीनां एकदिवसीयसम्मेलनस्य उद्घाटनं करिष्यति।
लोकसभासचिवालयस्य अनुसारं द्विदिवसीयसम्मेलने ‘लेखापरीक्षणम्, उत्तरदायित्वं सुशासनं च – लोकलेखासमितेः उद्भवमानं दायित्वम्’ इति विषये व्यापकविमर्शः भविष्यति। सार्वजनिकव्ययस्य निरीक्षणं, पारदर्शितायाः उत्तरदायित्वस्य च अभिवृद्धिः तथा लोकलेखासमितीनां सुदृढीकरणम् इत्यादिविषयेषु सार्थकचर्चा भविष्यति।
सार्वजनिकव्ययस्य परीक्षणं कुर्वन्त्यः तथा जनधनस्य उपयोगः विधायिकायाः अभिप्रायानुसारं स्वीकृत्यानुसारं च भवति इति सुनिश्चितं कुर्वन्त्यः लोकलेखासमितयः उत्तरदायित्वस्य उत्तरदायीशासनस्य च सिद्धान्तानां परिपालने महत्त्वपूर्णां भूमिकां निर्वहन्ति। अस्मिन् सम्मेलने सार्वजनिकवित्तीयप्रबन्धनक्षेत्रे उद्भवमानानां चुनौतीनां, लेखापरीक्षणस्य परिवर्तमानस्य स्वरूपस्य तथा विधायीयरूपेण समीक्षायाः निरीक्षणस्य च प्रभावशीलतायाः अधिकवर्धनस्य आवश्यकतायाः विषये रचनात्मकसंवादः भविष्यति इति अपेक्षा अस्ति।
सम्मेलनस्य समापनं बुधवासरे नवम्बरमासस्य चतुर्थे दिने भविष्यति। अस्मिन्नवसरे लोकसभाध्यक्षः श्री ओमबिरला समापनसत्रं सम्बोधयिष्यति। केरलविधानसभायाः अध्यक्षः तथा संसदः लोकलेखासमितेः सभापतिश्च समापनसत्रं सम्बोधयिष्यतः। केरलविधानसभायाः उपाध्यक्षः स्वागतभाषणं करिष्यति, केरलविधानसभायाः लोकलेखासमितेः सभापतिः च धन्यवादज्ञापनं प्रस्तोष्यति।
उद्घाटनसत्रे केरलस्य मुख्यमन्त्री वी. डी. सतीशनः, राज्यसभायाः उपसभापतिः हरिवंशः, केरलविधानसभायाः अध्यक्षः थिरुवञ्चूर राधाकृष्णनः तथा केरलविधानसभायाः लोकलेखासमितेः सभापतिः के. एन. बालगोपालः उपस्थिताः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani