Enter your Email Address to subscribe to our newsletters

कोलकाता, 01 नवंबरमासः (हि. स.)।
पश्चिमबङ्गराज्ये द्वात्रिंशत्तमस्य कोलकातान्तरराष्ट्रियचलचित्रमहोत्सवस्य शुभारम्भः अभवत्। रविवासरे नन्दन-द्वितीयप्रेक्षागृहे महोत्सवस्य नवीनप्रतीकचिह्नस्य औपचारिकविमोचनं कृतम्। अस्मिन्नवसरे अभिनेता मिथुनचक्रवर्ती, महोत्सवस्य अध्यक्षः तथा अभिनेता प्रसन्नजीतचटर्जी, अभिनेता जीतः, विधायकः तथा अभिनेता हिरणचटर्जी, रुद्रनीलघोषः, पापियाअधिकारी इत्यादयः अनेकाः प्रसिद्धाः व्यक्तयः उपस्थिताः आसन्।
महोत्सवस्य अध्यक्षः प्रसन्नजीतचटर्जी अवदत् यत् अस्मिन् वर्षे चलचित्रमहोत्सवः दिसम्बरमासस्य १६ दिनाङ्कतः २३ दिनाङ्कपर्यन्तम् अष्टदिनानि यावत् आयोजयिष्यते। अस्य उद्घाटनसमारोहः ऐतिहासिके विक्टोरियामेमोरियल इत्यत्र आयोजयिष्यते। अभिनेता जीतः सूचितवान् यत् द्वात्रिंशत्तमस्य कोलकातान्ताराष्ट्रियचलचित्रमहोत्सवस्य विषयदेशः आयरलैण्डः भविष्यति।
अपरतः अभिनेता तथा विधायकः रुद्रनीलघोषः अवदत् यत् महोत्सवस्य प्रतिनिधिपत्राय आवेदनप्रक्रिया नवम्बरमासस्य पञ्चमदिनाङ्कात् प्रारभ्यते। इच्छुकाः चलचित्रप्रेमिणः आधिकारिकजालपुटे केआईएफएफ डॉट इन इत्यत्र गत्वा पञ्जीकरणं कर्तुं शक्नुवन्ति। महोत्सवसम्बद्धाः अन्याः सूचनाः अपि जालपुटे उपलब्धाः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani