उत्तरप्रदेशे अङ्कीयशिक्षया परिषदीयविद्यालयानां भविष्यं समुज्ज्वलं भवति, १४,९८८ विद्यालयाः सूचनासञ्चारप्रौद्योगिकीप्रयोगशालाभिः आच्छादिताः।
अङ्कीयमाध्यमेन विज्ञानस्य, गणितस्य आधुनिकशिक्षणपद्धतीनां च सम्पर्के आगच्छन्ति विद्यार्थिनः। * परिषदीयशिक्षायाः आधुनिकीकरणम्, भविष्यस्य आवश्यकतानाम् अनुरूपं सज्जीक्रियमाणा नूतना संततिः। लखनऊ, 10नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्
उत्तर प्रदेश सरकार का लोगों


* अङ्कीयमाध्यमेन विज्ञानस्य, गणितस्य आधुनिकशिक्षणपद्धतीनां च सम्पर्के आगच्छन्ति विद्यार्थिनः।

* परिषदीयशिक्षायाः आधुनिकीकरणम्, भविष्यस्य आवश्यकतानाम् अनुरूपं सज्जीक्रियमाणा नूतना संततिः।

लखनऊ, 10नवम्बरमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशस्य परिषदीयविद्यालयेषु शिक्षायाः स्वरूपं तीव्रगत्या परिवर्तते। अधुना ग्राम्यप्रदेशाणां बालकाः अपि अङ्कीयप्रौद्योगिक्या, आधुनिकविज्ञानेन नवाचाराधारितशिक्षणपद्धतिभिश्च परिचिताः भवन्ति। प्रदेशस्य १४,९८८ परिषदीयविद्यालयेषु सञ्चालिताः आईसीटी प्रयोगशालाः विद्यार्थिनः प्रौद्योगिकीज्ञानेन संयोज्य तेषां भविष्यस्य सुदृढं आधारं निर्मान्ति। प्रदेशसर्वकारस्य एषः प्रयासः शिक्षां परम्परागतपरिधेः अग्रे नीत्वा आधुनिकज्ञानस्य, प्रौद्योगिकीयदक्षतायाः गुणवत्तापूर्णशिक्षणस्य च नवीनान् अवसरान् उपलब्धान् कारयति।

आईसीटी प्रयोगशालाभिः शिक्षणस्य आधुनिकानुभवः

परिषदीयविद्यालयेषु आईसीटी प्रयोगशालाः विद्यार्थिनां कृते आधुनिकशिक्षणस्य महत्त्वपूर्णं माध्यमं भवन्ति। अङ्कीयशैक्षिकसामग्रीणां प्रौद्योगिकीयसंसाधनानां च उपयोगेन बालकेभ्यः विषयान् अवगन्तुं नवीनाः अवसराः प्राप्यन्ते। विज्ञानं गणितम् इत्यादीन् विषयान् अङ्कीयमाध्यमेन प्रस्तुत्य शिक्षणप्रक्रिया अधिका रोचिका सुगमा च भवति। प्रौद्योगिक्याधारितशिक्षणं विद्यार्थिषु जिज्ञासां, तार्किकचिन्तनं नवाचारभावनां च प्रोत्साहयति। आईसीटी प्रयोगशालानां माध्यमेन बालकान् अङ्कीयजगता परिचितान् कारयितुं सहैव भविष्यस्य प्रौद्योगिकीयावश्यकतानाम् अनुरूपं सज्जीकर्तुं प्रयासः क्रियते।

अङ्कीयसाक्षरतया विकसिताः प्रौद्योगिकीयदक्षताः

आईसीटी प्रयोगशालाः विद्यार्थिभ्यः अङ्कीयोपकरणानाम् उपयोगस्य, सूचनानाम् अवबोधस्य प्रौद्योगिक्याः माध्यमेन शिक्षणप्रक्रियायाः च परिचयं प्राप्तुम् अवसरं प्रददति। वर्तमानकाले अङ्कीयसाक्षरता शिक्षायाः महत्त्वपूर्णः भागः अभवत्। अतः परिषदीयविद्यालयेषु प्रौद्योगिक्याधारितशिक्षणं बालकान् आधुनिकज्ञानेन संयोजयितुं सहैव तेषां समस्यासमाधानक्षमतायाः, तार्किकचिन्तनस्य सृजनात्मकतायाश्च विकासे सहायकं भवति। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे शिक्षाव्यवस्थां समयस्य आवश्यकतानाम् अनुरूपं सज्जीकर्तुं बलं दीयते, येन विद्यार्थिनः भविष्ये प्रौद्योगिकीदृष्ट्या सक्षमाः नागरिकाः भवितुं शक्नुयुः।

प्रौद्योगिक्याधारितशिक्षणेन गुणवत्तापूर्णशिक्षायाः विस्तारः

परिषदीयविद्यालयेषु आईसीटी प्रयोगशालानां माध्यमेन शिक्षणप्रक्रियां अधिकां सहभागितापूर्णां, रोचिकां प्रभावशालिनीं च कर्तुं बलं दीयते। अङ्कीयसंसाधनानाम् उपयोगेन विद्यार्थिभ्यः विषयाणां सम्यगवबोधं विकसितुं स्वकीयां शिक्षणक्षमतां वर्धयितुं च अवसरः प्राप्यते। प्रौद्योगिक्याधारितशिक्षणं ग्रामीणनगरीयक्षेत्रयोः बालकानां मध्ये आधुनिकशिक्षायाः अवसरान् विस्तृतान् कर्तुम् अपि सहायकं भवति। शिक्षकाः अपि अङ्कीयसंसाधनानां प्रभावशालिनः उपयोगाय प्रोत्साहिताः क्रियन्ते, येन कक्षाशिक्षणे प्रौद्योगिक्याः समुचितः समावेशः भवेत्। प्रदेशसर्वकारः परिषदीयशिक्षायाः आधुनिकीकरणेन विद्यार्थिनः ज्ञानकौशलप्रौद्योगिकीयदक्षताभिः सह भविष्याय सज्जीकर्तुं निरन्तरं प्रयासान् करोति।

बेसिकशिक्षाराज्यमन्त्री (स्वतन्त्रप्रभारः) सन्दीपसिंहः अवदत् यत् मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे प्रदेशस्य आधारभूतशिक्षाव्यवस्थां आधुनिकां गुणवत्तापूर्णां च कर्तुं निरन्तरं प्रयासाः क्रियन्ते। आईसीटी प्रयोगशालानां माध्यमेन परिषदीयविद्यालयानां विद्यार्थिनः आधुनिकशिक्षणसंसाधनैः संयोजयितुं कार्यं क्रियते। अस्माकम् उद्देश्यम् अस्ति यत् ग्रामीणनगरीयक्षेत्रयोः सर्वेभ्यः बालकेभ्यः समानरूपेण गुणवत्तापूर्णशिक्षा प्राप्येत तथा ते प्रौद्योगिकीदृष्ट्या दक्षाः भूत्वा भविष्यस्य आव्हानानां सम्मुखीकरणे समर्थाः भवेयुः।

विद्यालयशिक्षामहानिदेशिका मोनिकाराणी अवदत् यत् परिषदीयविद्यालयेषु अङ्कीयसंसाधनानां विस्तारः शिक्षणप्रक्रियां अधिकां प्रभावशालिनीं विद्यार्थिभ्यः च रुचिकरीं करोति। आईसीटी प्रयोगशालानां माध्यमेन बालकान् आधुनिकप्रौद्योगिक्या अङ्कीयशिक्षणसामग्र्या च परिचितान् कारयन्ति। एतेन विद्यार्थिनां शिक्षणक्षमतायाः विकासेन सह शिक्षकाः अपि प्रौद्योगिक्याधारितशिक्षणाय प्रोत्साहिताः भवन्ति। अस्माकं प्रयासः अस्ति यत् प्रत्येकः विद्यार्थी आधुनिकशिक्षायाः अवसरान् प्राप्य ज्ञानेन प्रौद्योगिकीयदक्षतया च सह अग्रे वर्धेत।

Hindusthan Samachar / Dheeraj Maithani