छठपर्वणि चण्डीगढ-बरौनी इत्यनयोः मध्ये विशेषरेलयानं प्रचलिष्यति
नवदिल्ली, १० नवम्बरमासः (हि.स.)। उत्सवकाले यात्रिणाम् अतिरिक्तसम्मर्दं दृष्ट्वा उत्तररेलविभागेन चण्डीगढ-बरौनी-जङ्क्शनयोः मध्ये आरक्षितविशेष-रेलयानस्य सञ्चालनस्य निर्णयः कृतः। ०४५३८/०४५३७ चण्डीगढ-बरौनी-जङ्क्शन-चण्डीगढ-विशेषरेलयानस्य सञ्चालनम् एकैकवा
छठपर्वणि चण्डीगढ-बरौनी इत्यनयोः मध्ये विशेषरेलयानं प्रचलिष्यति


नवदिल्ली, १० नवम्बरमासः (हि.स.)। उत्सवकाले यात्रिणाम् अतिरिक्तसम्मर्दं दृष्ट्वा उत्तररेलविभागेन चण्डीगढ-बरौनी-जङ्क्शनयोः मध्ये आरक्षितविशेष-रेलयानस्य सञ्चालनस्य निर्णयः कृतः। ०४५३८/०४५३७ चण्डीगढ-बरौनी-जङ्क्शन-चण्डीगढ-विशेषरेलयानस्य सञ्चालनम् एकैकवारं भविष्यति। अनेन छठपर्वणि बिहारं गच्छद्भ्यः ततः प्रत्यागच्छद्भ्यः च यात्रिभ्यः सुविधा भविष्यति।

उत्तररेलविभागस्य अनुसारं ०४५३८ सङ्ख्यकं चण्डीगढ-बरौनी-जङ्क्शन-विशेषरेलयानं नवम्बरमासस्य १० दिनाङ्के चण्डीगढतः प्रस्थास्यति। प्रत्यागमनकाले ०४५३७ सङ्ख्यकं बरौनी-जङ्क्शन-चण्डीगढ-विशेषरेलयानं नवम्बरमासस्य १२ दिनाङ्के बरौनीतः प्रस्थास्यति। अस्मिन् रेलयाने वातानु-कूलितयानानि, शयनयानानि सामान्य-श्रेण्या: च यानानि उपलब्धानि भविष्यन्ति।

चण्डीगढतः एतद् रेलयानं रात्रौ १० वादने प्रस्थाय अम्बालाछावनी, यमुनानगर-जगाधरी, सहारनपुरम्, मुरादाबादम्, बरेली, लखनऊ, रायबरेली, माँ बेल्हा देवी धाम प्रतापगढ, वाराणसी, गाजीपुरसिटी, बलिया, सुरेमनपुरम्, छपरा, हाजीपुरम्, मुजफ्फरपुरम्, समस्तीपुरम् च मार्गेण गत्वा परदिने प्रातः ३ वादन ३० निमेषे बरौनी-जङ्क्शन इत्यत्र प्राप्स्यति।

प्रत्यागमने बरौनी-जङ्क्शनतः एतद् रेलयानं प्रातः ६ वादने ३० निमेषे प्रस्थाय निर्धारितमार्गेण गत्वा परदिने मध्याह्ने १ वादन २० निमेषे चण्डीगढं प्राप्स्यति। रेलविभागेन यात्रिभ्यः रेलयानस्य समयस्य अन्यविवरणानां च ज्ञातुं राष्ट्रियरेलयानसूचनाप्रणाल्याः जालपुटं द्रष्टुम् अथवा रेलविभागस्य साहाय्य-दूरभाषसङ्ख्यायां १३९ सम्पर्कं कर्तुं च अनुरोधः कृतः।

Hindusthan Samachar / Divya Ranjan