दीपावलीपर्वणः निःशुल्कस्य एलपीजीवायुसिलिण्डरस्य कृते १४१.८८ कोटिरूप्यकाणि १५ लक्षं लाभार्थिनां कोषेषु प्रेषितानि।
नव दिल्ली, 10 नवंबरमासः (हि.स.)। दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता मङ्गलवासरे तालकटोराक्रीडाङ्गणे आयोजिते कार्यक्रमे १५ लक्षाधिकेभ्यः पात्रेभ्यः राशनपत्रधारकपरिवारेभ्यः निःशुल्कस्य एलपीजीवायुसिलिण्डरस्य कृते आर्थिकसहायतां प्रदत्तवती। मुख्यम
दिल्ली की मुख्यमंत्री रेखा गुप्ता मंगलवार को तालकटोरा स्टेडियम में मुफ्त एलपीजी सिलेंडर के लिए आर्थिक सहायता चेक देते हुए


नव दिल्ली, 10 नवंबरमासः (हि.स.)।

दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता मङ्गलवासरे तालकटोराक्रीडाङ्गणे आयोजिते कार्यक्रमे १५ लक्षाधिकेभ्यः पात्रेभ्यः राशनपत्रधारकपरिवारेभ्यः निःशुल्कस्य एलपीजीवायुसिलिण्डरस्य कृते आर्थिकसहायतां प्रदत्तवती। मुख्यमन्त्रिणा बटन्ं नुदित्वा प्रत्यक्षलाभहस्तान्तरणस्य (डीबीटी) माध्यमेन लाभार्थिनां बैंकखातेषु सहायताराशिः प्रेषिता। लाभार्थिभ्यः प्रतीकात्मकधनादेशाः अपि प्रदत्ताः।

अस्मिन्नवसरे दिल्लीप्रदेशस्य खाद्यापूर्तिमन्त्री मनजिन्दरसिंहसिरसा, सांसदः बाँसुरीस्वराजः, विधायकाः अभयवर्मा, जितेन्द्रमहाजनः, कुलदीपसोलङ्की, चन्दनचौधरी इत्यादयः अन्ये च गणमान्यजनाः उपस्थिताः आसन्।

अस्मिन्नवसरे मुख्यमन्त्री उक्तवती यत् दिल्लीसर्वकारः स्वघोषितसङ्कल्पानां पूर्तये जनकल्याणकारीयोजनानां लाभं प्रत्यक्षं जनान् प्रति प्रापयितुं च प्रतिबद्धः अस्ति। राशनपत्रधारकपरिवारेभ्यः होलिकापर्वणि दीपावलीपर्वणि च आर्थिकसहायताप्रदानस्य योजना अस्याः प्रतिबद्धतायाः एव भागः अस्ति। सहायताराशेः प्रत्यक्षं बैंकखातेषु हस्तान्तरणेन लाभार्थिभ्यः आर्थिकसहायतां प्रापयितुं प्रक्रिया सरला पारदर्शिनी च भवति।

सा अवदत् यत् सर्वकारेण राशनपत्रधारकपरिवारेभ्यः होलिकापर्वणि दीपावलीपर्वणि च एलपीजीवायुसिलिण्डरस्य कृते आर्थिकसहायतां प्रदातुं योजना निर्मिता आसीत्। एतां प्रतिबद्धतां अग्रे नयन्त्या अस्मिन् वर्षे दीपावलीपर्वणि दिल्लीप्रदेशस्य १५,४५,९९४ परिवाराणां बैंकखातेषु डीबीटीमाध्यमेन कुलम् १४१.८८ कोटिरूप्यकाणां सहायताराशिः प्रेषिता। एतेषु प्रधानमन्त्रिउज्ज्वलायोजनायाः १,२४,९६४ परिवाराः तथा च गैरप्रधानमन्त्रिउज्ज्वलायोजनावर्गस्य १४,२१,०३० परिवाराः सम्मिलिताः सन्ति। प्रधानमन्त्रिउज्ज्वलायोजनावर्गस्य प्रत्येकस्मै परिवारे ६४२ रूप्यकाणां सहायताराशिः प्रदत्ता। अपरतः गैरप्रधानमन्त्रिउज्ज्वलायोजनावर्गस्य प्रत्येकस्मै परिवारे ९४२ रूप्यकाणां सहायताराशिः प्रदत्ता। अस्याः योजनायाः उद्देश्यम् वर्षे द्वयोः प्रमुखयोः उत्सवयोः परिवारेभ्यः आर्थिकसहायतां प्रदाय घरेलुव्ययस्य भारं न्यूनीकर्तुम् अस्ति।

मुख्यमन्त्री उक्तवती यत् दिल्लीसर्वकारेण योजनायाः अन्तर्गतं सहायताराशेः हस्तान्तरणाय प्रत्यक्षलाभहस्तान्तरणस्य व्यवस्था स्वीकृता अस्ति। अस्याः माध्यमेन राशिः परिवारस्य मुखियायाः आधारपत्रेण सम्बद्धे बैंकखाते प्रत्यक्षं प्राप्यते। सा उक्तवती यत् योजनायाः सफलक्रियान्वयने लाभार्थिनां परिचयः, राशनपत्रसम्बद्धविवरणानां सत्यापनं आवश्यकदत्तांशानां च मेलनं क्रियते, येन निर्धारितपात्रपरिवारेभ्यः सहायता प्राप्येत। सहैव पारदर्शितां संरक्षितुं कस्यापि प्रकारस्य द्विगुणसहायतां, राशेः दुरुपयोगम् अथवा अनियमिततां च निवारयितुं निगराण्याः लेखापरीक्षणस्य च व्यवस्था अपि निर्धारितास्ति।

मुख्यमन्त्री उक्तवती यत् दीपावली केवलं प्रकाशस्य उत्सवस्य च पर्व नास्ति, अपितु सुखानि विभाजयितुं परस्परं सहायतां कर्तुं च अवसरः अपि अस्ति। सर्वकारस्य एषा पहलः दिल्लीप्रदेशस्य राशनपत्रधारकपरिवारेभ्यः उत्सवेषु आर्थिकसहायतां प्रदातुं तेषां जीवने च सुखानि वर्धयितुं महत्त्वपूर्णं पदम् अस्ति।

अस्मिन्नवसरे मन्त्री मनजिन्दरसिंहसिरसा उक्तवान् यत् दीपावल्याः भ्रातृद्वितीयायाश्च पावनावसरे तालकटोराक्रीडाङ्गणे आयोजितस्य कार्यक्रमस्य समये १५ लक्षाधिकानां पात्रराशनपत्रधारकपरिवाराणां बैंकखातेषु डीबीटीमाध्यमेन प्रायः १४२ कोटिरूप्यकाणां राशिः प्रेषिता। अस्मात् पूर्वम् अपि होलिकापर्वणि पात्रपरिवारेभ्यः अस्याः योजनायाः लाभः प्रदत्तः आसीत्। अस्माकम् उद्देश्यम् केवलम् उत्सवेषु आर्थिकसहायतां प्रदातुम् एव नास्ति, अपितु महङ्गतायाः अस्मिन् काले परिवाराणां घरेलुव्ययस्य भारं न्यूनीकर्तुं मातॄणां भगिनीनां च सञ्चयं वर्धयितुं तेषां जीवने आर्थिकोपशमनं सुखसमृद्धिं च आनेतुम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani