Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 10 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य जौनपुरनगरे भगवतः चित्रगुप्तस्य पूजनोत्सवस्य अवसरे मङ्गलवासरे अखिलभारतीयकायस्थमहासभायाः पक्षतः भव्यायाः शोभायात्रायाः आयोजनं कृतम्। प्रदेशाध्यक्षस्य डॉ. इन्द्रसेनश्रीवास्तवस्य नेतृत्वे निर्गतायां शोभायात्रायां जनपदस्य विभिन्नक्षेत्रेभ्यः कायस्थसमाजस्य बहुसङ्ख्यकाः जनाः भागं गृहीतवन्तः।
शोभायात्रा नगरपालिकायाः टाउनहॉलक्रीडाङ्गणात् प्रारभ्य नगरस्य विभिन्नमार्गान् अतिक्रम्य रूहट्टास्थितं भगवतः चित्रगुप्तस्य मन्दिरं प्राप्य सम्पन्ना अभवत्। अस्मिन्नवसरे श्रद्धालुभिः भगवतः चित्रगुप्तस्य जयघोषाः कृताः। मन्दिरं प्राप्ते सति भगवतः आरती कृता तथा श्रद्धालुभ्यः प्रसादः वितरितः। सायंकाले भण्डारस्य आयोजनम् अपि अभवत्, यस्मिन् बहुसङ्ख्यकाः जनाः प्रसादं गृहीतवन्तः।
अस्मिन्नवसरे प्रदेशाध्यक्षः डॉ. इन्द्रसेनश्रीवास्तवः उक्तवान् यत् भगवान् चित्रगुप्तः समस्तसमाजस्य आराध्यदेवः अस्ति। शोभायात्रायाः उद्देश्यम् तस्य पूजनार्चनया सह समाजस्य जनान् भगवतः चित्रगुप्तस्य जीवनस्य महत्त्वस्य च विषये जागरूकान् कर्तुम् अस्ति। तेन स्पष्टं कृतं यत् अस्य आयोजनस्य कोऽपि राजनैतिकः उद्देशः नास्ति, अपितु एतत् पूर्णतया धार्मिकं सामाजिकं च आयोजनम् अस्ति, यस्मिन् सर्वे जनाः सम्मिलिताः भूत्वा स्वस्य आराध्यदेवस्य आराधनां कर्तुं शक्नुवन्ति।
कार्यक्रमे जिलाध्यक्षः नीलमणिश्रीवास्तवः, राकेशश्रीवास्तवः, आनन्दमोहनः, राजेशश्रीवास्तवः, प्रदीपः अस्थाना, प्रदीपश्रीवास्तवः, प्रदीपश्रीवास्तवः डीओ, अमितश्रीवास्तवः, नीरजश्रीवास्तवः, आशीषश्रीवास्तवः, राजकिशोरश्रीवास्तवः, शशिश्रीवास्तवः, धीरजश्रीवास्तवः, धीरेन्द्रश्रीवास्तवः, अनुरागश्रीवास्तवः, मनीषश्रीवास्तवः, अभियन्ता अमितश्रीवास्तवः, दीपकश्रीवास्तवः (पत्रकारः), अङ्कितश्रीवास्तवः, सञ्जयः अस्थाना, मयङ्कश्रीवास्तवः देवेंद्रखरे च सहिताः बहुसङ्ख्यकाः जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani