उपराष्ट्रपतिः प्रधानमन्त्री च गुजराती-नववर्षे शुभकामनाः प्रदत्तवन्तौ
नवदिल्ली, १० नवम्बरमासः (हि.स.)। उपराष्ट्रपतिना सीपी राधाकृष्णनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अनेकैः नेतृभिः मङ्गलवासरे गुजराती-नववर्षस्य ‘बेस्तु वारस’ इत्यस्य पावनावसरे सर्वेभ्यः हार्दिक्यः शुभकामनाः प्रदत्ताः। उपराष्ट्रपतिः सामाजिकमाध्यमे
प्रतीकात्मक


नवदिल्ली, १० नवम्बरमासः (हि.स.)। उपराष्ट्रपतिना सीपी राधाकृष्णनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अनेकैः नेतृभिः मङ्गलवासरे गुजराती-नववर्षस्य ‘बेस्तु वारस’ इत्यस्य पावनावसरे सर्वेभ्यः हार्दिक्यः शुभकामनाः प्रदत्ताः।

उपराष्ट्रपतिः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र लिखितवान्, ‘‘इदं नववर्षं प्रत्येकस्मिन् गृहे सुखम्, उत्तमस्वास्थ्यं, शान्तिं समृद्धिं च आनयतु। एतत् सर्वेषां कृते नवीनाः आशाः, नवीनारम्भान् नवीनाकाङ्क्षाश्च आनयतु।’’

प्रधानमन्त्री मोदी उक्तवान् यत् अयं नवीनारम्भः सर्वेषां जीवने सुखं, शान्तिं, समृद्धिं कल्याणं च आनयतु। सर्वेषां जीवनम् उत्तमस्वास्थ्येन, उत्साहेन ऊर्जया च परिपूर्णं भवतु।

लोकसभाध्यक्षः ओमबिरला उक्तवान् यत् गुजराती-नववर्षं जीवने नवीनाशाः, सकारात्मकशक्तिः नवीनसङ्कल्पैः सह अग्रे गन्तुं च अवसरं प्रददाति। इदं नववर्षं भवतां सर्वेषां जीवने सुखं, शान्तिम्, उत्तमस्वास्थ्यं समृद्धिं च आनयतु।

गुजरातस्य उद्यमशीलता, कठिनपरिश्रमः जीवन्ताः सांस्कृतिकपरम्पराश्च देशस्य प्रगतौ महत्त्वपूर्णं योगदानं निरन्तरं ददतु। भवन्तः सर्वे स्वक्षमताभिः सङ्कल्पैश्च देशस्य विकासयात्रां नूतनानि शिखराणि प्रापयन्तु। सर्वेभ्यः मङ्गलमयं समृद्धं च नववर्षम् अभिनन्दनीयम्।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः उक्तवान् यत् इदं नववर्षं भवतां सर्वेषां जीवने सुखस्य, शान्तेः, समृद्धेः आनन्दस्य च नवीनां प्रभां आनयतु। भगवत्याः लक्ष्म्याः आशीर्वादः प्रत्येकस्मिन् परिवारे सदैव तिष्ठतु।

Hindusthan Samachar / Divya Ranjan