केन्द्रीयमन्त्रिणा गजेन्द्रसिंहशेखावतेन पनामानगरे आयोजितायां आईसीसीए-काङ्ग्रेसे भारतस्य प्रतिनिधित्वं कृतम्
वैश्विकपर्यटनमञ्चे केन्द्रीयमन्त्रिणा गजेन्द्रसिंहशेखावतेन भारतस्य सम्भावनाः रेखाङ्किताः। पनामानगरे आयोजितायां ६५ तम्यां आईसीसीए-काङ्ग्रेसे सहभागितां कृतवान्, भारतीयसमुदायेन सह दीपावली च आचरिता। जोधपुरम्, १० नवम्बरमासः (हि.स.)। जोधपुरस्य सांसदः क
jodhpur


वैश्विकपर्यटनमञ्चे केन्द्रीयमन्त्रिणा गजेन्द्रसिंहशेखावतेन भारतस्य सम्भावनाः रेखाङ्किताः।

पनामानगरे आयोजितायां ६५ तम्यां आईसीसीए-काङ्ग्रेसे सहभागितां कृतवान्, भारतीयसमुदायेन सह दीपावली च आचरिता।

जोधपुरम्, १० नवम्बरमासः (हि.स.)। जोधपुरस्य सांसदः केन्द्रीयसंस्कृतिमन्त्री पर्यटनमन्त्री च गजेन्द्रसिंहशेखावतः लण्डनयात्रायाः अनन्तरं पनामानगरं प्राप्तवान्। तत्र आयोजितायां ६५ तम्यां अन्ताराष्ट्रिय-काङ्ग्रेस्-एण्ड्-कन्वेन्शन-एसोसिएशन इत्यस्याः काङ्ग्रेसे सः भारतस्य प्रतिनिधित्वम् अकरोत्। अस्मिन् अवसरे तेन पनामानगरे निवसतां भारतीयसमुदायस्य सदस्यैः सह दीपावली आचरिता तथा च देशवासिभ्यः प्रदेशवासिभ्यश्च दीपोत्सवस्य शुभकामनाः प्रदत्ताः।

पनामानगरे आयोजितायाम् आईसीसीए-काङ्ग्रेसे वैश्विकमञ्चे भारतस्य एमआईसीई (सभा:, प्रोत्साहनयात्राः, सम्मेलनानि, प्रदर्शिन्यश्च) पर्यटनस्य सम्भावनानां तथा अस्मिन् क्षेत्रे देशस्य वर्धमानायाः भूमिकायाः विषये चर्चा अभवत्। केन्द्रीयमन्त्री शेखावतः अन्ता-राष्ट्रियसम्मेलनानां व्यावसायिक-कार्यक्रमाणां च आयोजनार्थं भारतं प्रमुखवैश्विकगन्तव्यस्थानरूपेण विकसितुं विद्यमानाः सम्भावनाः रेखाङ्कितवान्।

तेन उक्तं यत् भारते अन्ताराष्ट्रिय-सम्मेलनानां व्यावसायिककार्यक्रमाणां च आयोजनस्य विपुलाः सम्भावनाः सन्ति। एतादृशाः कार्यक्रमाः देशे निवेशम् आकर्षयितुं, रोजगारस्य नवीनावसरान् सृजितुं, पर्यटनक्षेत्राय च नूतनां गतिं प्रदातुं महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति। एतदर्थं वैश्विक-उद्योगजगतः सह निरन्तरं संवादः तथा नवीनानाम् अन्ताराष्ट्रिय-सहभागितानां विकासः आवश्यकः अस्ति।

भारतीयपर्यटनस्य भविष्यं वैश्विक-कार्यक्रमेषु देशस्य सहभागितायाः महत्त्वं च दृष्ट्वा अस्मिन् अन्ताराष्ट्रियसम्मेलने शेखावतस्य उपस्थितिः महत्त्वपूर्णा आसीत्।

अस्मिन्नवसरे केन्द्रीयमन्त्रिणा पनामादेशे निवसतां भारतीयसमुदायस्य सदस्यैः सह दीपावली आचरिता। तेन एतदवसरं स्मरणीयम् अनुभवं वर्णयता उक्तं यत् भारतात् सहस्रशः योजनदूरे निवसन्तोऽपि भारतीयसमुदायस्य सदस्याः येन आत्मीयतया, प्रेम्णा उत्साहेन च देशस्य उत्सवान् परम्पराश्च संरक्षितवन्तः, तत् प्रशंसनीयम् अस्ति। मातृभूमेः प्रति तेषां प्रेम सम्बन्धश्च हृदयस्पर्शी अस्ति।

शेखावतेन उक्तं यत् भारतीयसमुदायस्य सदस्यैः येन सौहार्देण स्नेहेन च तस्य स्वागतं कृतम्, तेन पनामादेशेऽपि गृहात् दूरे स्वजनानां मध्ये स्थितस्य इव अनुभूतिः अभवत्। सर्वैः मिलित्वा एषः अवसरः परिवारेण सह दीपावलीम् आचरितुम् इव स्मरणीयः कृतः। तेन अस्याः अविस्म-रणीयायाः सन्ध्यायाः प्राप्तस्य स्नेहस्य च कृते पनामादेशस्य समस्तस्य भारतीय-समुदायं प्रति कृतज्ञता व्यक्ता।

केन्द्रीयमन्त्रिणा उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतं वैश्विककार्य-क्रमाणाम् अन्ताराष्ट्रियपर्यटनस्य च कृते विश्वस्य प्रियतमेषु गन्तव्यस्थानेषु अग्रणीं कर्तुं प्रयासाः क्रियन्ते। भारतस्य सांस्कृतिकवैभवस्य, पर्यटनवैविध्यस्य, आधुनिकसुविधानां च वैश्विकमञ्चे नूतनं परिचयं प्रदातुं प्रयत्नः अस्मिन् दिशि महत्त्वपूर्णं सोपानम् अस्ति।

Hindusthan Samachar / Divya Ranjan