Enter your Email Address to subscribe to our newsletters


भोपालम्, १० नवम्बरमास: (हि.स.)। मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः मङ्गलवासरे विन्ध्यक्षेत्रस्य स्वास्थ्यसेवासु नूतनां प्रगतिम् आनयन् रीवानगरस्य सञ्जयगान्धिचिकित्सालये, जीएमएच-चिकित्सालये तथा सुपरस्पेशियलिटी-चिकित्सालये अनेकानाम् अत्याधुनिक-चिकित्सासुविधानां केन्द्राणां च उद्घाटनम् अकरोत्। एतासां सुविधानाम् आरम्भेण रीवा-नगरस्य समीपस्थानां जनपदानां च रोगिणां गम्भीररोगाणां चिकित्सार्थं महानगरेषु गमनस्य आवश्यकता न भविष्यति। जटिलरोगाणां चिकित्सा अधुना रीवानगरे एव सम्भवम् अभवत्।
उपमुख्यमन्त्रिणा अत्याधुनिक-‘नेट्’-यन्त्रस्य उद्घाटनं कृतम्
उपमुख्यमन्त्रिणा शुक्लेन सञ्जयगान्धि-चिकित्सालये रक्ताधानप्रक्रियां पूर्णतया सुरक्षितां कर्तुं प्रायः ६.५ कोटिरूप्यकाणां व्ययेन स्थापितस्य आधुनिकस्य ‘नेट्’-यन्त्रस्य उद्घाटनं कृतम्। अस्य यन्त्रस्य माध्यमेन एचआईवी, हेपेटाइटिस-बी तथा हेपेटाइटिस-सी इत्यादिनां गम्भीररोगाणां संक्रमणस्य प्रारम्भिकावस्थायां, अर्थात् विन्डो-पीरियड-काले, एव परीक्षणं कर्तुं शक्यते। पूर्वम् एतस्य परीक्षणस्य परिणामाय १५ दिनेभ्यः एकमासपर्यन्तं समयः अपेक्षितः आसीत्, किन्तु अधुना केवलं द्विदिनेषु परिणामं प्राप्तुं शक्यते। अनेन संक्रमितं रक्तं स्वस्थरोगिणे न प्रदास्यते। सामान्य-पृथक्करण-एककेन रोगिणः शरीरे ५,००० प्लेटलेट्स् वर्धन्ते, किन्तु अस्य आधुनिकयन्त्रस्य माध्यमेन साक्षात् ५०,००० पर्यन्तं प्लेटलेट्स वर्धयितुं शक्यन्ते।
जीएमएच-चिकित्सालये अत्याधुनिकस्य ‘मिल्क-बैङ्क्’ इत्यस्य सुविधा
नवजातशिशूनां जीवनरक्षायै उत्तम-पोषणाय च जीएमएच-चिकित्सालयस्य शिशुरोगविभागे आधुनिकस्य ‘मिल्क-बैङ्क्’ इत्यस्य आरम्भः कृतः। यासां मातॄणां स्तन्यं पर्याप्तमात्रायां न भवति, तासां नवजातशिशुभ्यः अस्य केन्द्रस्य माध्यमेन पाश्चुरीकृतं स्तन्यं प्रदास्यते। अनेन शिशूनां रोगप्रतिरोधकक्षमता तथा तन्त्रिकातन्त्रस्य विकासः सम्यग्रूपेण भविष्यति। राष्ट्रिय-स्वास्थ्य-मिशन इत्यस्य सहयोगेन तथा डॉ. नरेशबजाजस्य दलस्य प्रयासैः एषा सुविधा उपलब्धा अभवत्।
सुपरस्पेशियलिटी-चिकित्सालये आईसीयू-शय्याः वर्धिताः
रोगिणां वर्धमानसङ्ख्यां गम्भीररोगिणां च सुविधां दृष्ट्वा सुपरस्पेशियलिटी-चिकि-त्सालये आईसीयू-सुविधानां विस्तारः कृतः। हृदयरोगविभागस्य आईसीयू-शय्याः १० तः २० पर्यन्तं वर्धिताः। वृक्क-विज्ञानविभागस्य आईसीयू-शय्याः ५ तः १० पर्यन्तं वर्धिताः।
बालानां कृते आरईआईसी-केन्द्रं बाल-कर्करोग-डे-केयर-एककं च
बालानां विशेषस्वास्थ्यसेवायै गम्भीर-रोगाणां चिकित्सायै च महत्त्वपूर्णाः प्रयासाः कृताः। बौद्धिकविकासे विलम्ब-युक्तानां तथा संवादं कर्तुम् असमर्थानां बालानां कृते आरईआईसी-केन्द्रस्य उद्घाटनं कृतम्। अत्र ५,००० तः अधिकेभ्यः पञ्जीकृतेभ्यः बालकेभ्यः बाह्यरोगि-विभागस्य तथा भौतिक-चिकित्सायाः माध्यमेन नियमितं मार्गदर्शनं परिचर्या च प्राप्स्यते।
बालानां कर्करोगस्य समयोचित-कीमोथेरेपी-चिकित्सायै विशेषं दिवा-सेवाकेन्द्रम् आरब्धम्। ‘कैनकिट्’ इति संस्थया सह सन्धिपत्रं हस्ताक्षरितम् अस्ति। एषा संस्था कर्करोगपीडितानां बालानां आवागमनस्य सम्पूर्णं व्ययं वहिष्यति। एतदतिरिक्तं आगामीषु द्विमासेषु रीवानगरे एव ‘पेट्-सीटी’ यन्त्रमपि स्थापयितुं योजना अस्ति।
रीवानगरं चिकित्साकेन्द्ररूपेण विकसितुं सङ्कल्पः
उपमुख्यमन्त्रिणा उक्तं यत् चिकित्सा-महाविद्यालये, सञ्जयगान्धिचिकित्सालये, जीएमएच-चिकित्सालये तथा सुपर-स्पेशियलिटी-चिकित्सालयेषु अत्या-धुनिकस्तरीयाः सुविधाः उपलब्धाः क्रियन्ते। चिकित्सकानां सम्पूर्णदलस्य समन्वित-प्रयासैः रीवानगरं श्रेष्ठं चिकित्सा-केन्द्ररूपेण विकसितं क्रियते, येन क्षेत्रस्य रोगिणः चिकित्सार्थं बहिः गन्तुं बाध्याः न भवेयुः।
कार्यक्रमे अधिष्ठाता डॉ. शशिधरगर्गः, सञ्जयगान्धिचिकित्सालयस्य अधीक्षकः डॉ. प्रियङ्कशर्मा, डॉ. नरेशबजाजः, डॉ. मनोजइन्दुरकरः तथा सुपरस्पेशियलिटी-चिकित्सालयस्य अधीक्षकः डॉ. अक्षयश्रीवास्तवः इत्येतै: सह अन्ये चिकित्सकाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan