Enter your Email Address to subscribe to our newsletters

चतुरशीतिवर्षाणां वर्षासम्बद्धदत्तांशैः निर्मितं नवीनं जलवायुसञ्जालप्रतिरूपम्, स्थानीयवृष्टेः वास्तविकमानसूनागमनस्य च मध्ये भेदं करिष्यति।
नवदेहली, नवम्बरमासः १० (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) मद्रासस्य तथा गुवाहाटीविश्वविद्यालयस्य शोधकर्तारः मानसूनस्य सटीकसूचनां प्रदातुं वैज्ञानिकसमाधानस्य अन्वेषणदिशि महत्त्वपूर्णाम् उपलब्धिं प्राप्तवन्तः। एषा नवीनप्रौद्योगिकी मानसूनस्य सटीकसूचनां प्रदास्यति।
कृषकाणां, देशस्य अर्थव्यवस्थायाः तथा जनजीवनस्य च महत्त्वपूर्णः भागः मानसूनस्य समये आगमने निर्भरः अस्ति। अधुना एतया नवीनप्रौद्योगिक्या कृषकाणां वपनकार्यात् आरभ्य देशस्य जलसञ्चयः, खाद्यसुरक्षा, बाढप्रबन्धनं च यावत् समस्यासमाधानं भविष्यति। यतः कस्मिन् क्षेत्रे मानसूनस्य वास्तविकमागमनं कदा अभवत्, इत्यस्य सटीकनिर्धारणं दीर्घकालात् मौसमवैज्ञानिकानां कृते चुनौतीपूर्णं वर्तते। अनेकवारं स्थानीयवृष्टिमेव मानसूनस्य आगमनं मन्यन्ते, यद्यपि व्यापकमानसूनीप्रणाली तस्मिन् क्षेत्रे प्राप्ता एव न भवति।
आईआईटी मद्रासस्य गुवाहाटीविश्वविद्यालयस्य च शोधकर्तृभिः एकं नवीनं जलवायुसञ्जालप्रतिरूपं विकसितम्, यत् स्थानीयवृष्टेः वास्तविकव्यापकमानसूनीगतिविधेश्च मध्ये भेदं स्पष्टं कर्तुं शक्नोति। प्रथमवारं कस्मिंश्चित् स्थाने मानसूनस्य वास्तविकमागमनं बृहत्प्रमाणेन सक्रियायाः परस्परसम्बद्धायाः वर्षाप्रणाल्याः आधारेण ज्ञातुं अधिकं वस्तुनिष्ठः उपायः प्रस्तुतः अस्ति।
शोधकर्तॄणां दावः अस्ति यत् एषा पद्धतिः कृषकेभ्यः वपनसमयविषये अधिकविश्वसनीयां सूचनां दातुं शक्नोति। तथैव सर्वकाराय नीतिनिर्मातृभ्यश्च जलसंसाधनप्रबन्धनस्य, खाद्यसुरक्षायाः, बाढसज्जतायाश्च सम्बन्धिनीनां योजनानां निर्माणे सहायकसिद्धा भवितुम् अर्हति। अस्य शोधस्य निष्कर्षाः प्रतिष्ठितायां अन्तरराष्ट्रीयशोधपत्रिकायां जर्नल ऑफ क्लाइमेट इत्यस्यां प्रकाशिताः सन्ति। एषा अमेरिकनमौसमविज्ञानसंस्थायाः सहकर्मी-समीक्षितशोधपत्रिका अस्ति।
स्थानीयवृष्टेः मानसूनागमनस्य च भेदं ज्ञास्यति नवीनप्रौद्योगिकी
अद्यावधि मानसूनस्य आगमनं मुख्यतः वर्षायाः मात्रायाः, मौसमीपरिस्थितीनां, क्षेत्रीयनिरीक्षणानां च आधारेण निर्धारितं क्रियते स्म। अस्मिन् एकः प्रमुखः व्यावहारिकः दोषः अस्ति यत् कस्मिंश्चित् स्थाने मानसूनस्य आगमनात् पूर्वमपि मेघगर्जनया सह वृष्टिः भवितुम् अर्हति। एतादृशी वृष्टिः किञ्चित्कालं यावत् भवित्री स्थानीयमौसमीगतिविधिः भवति, यस्याः व्यापकमानसूनीप्रणाल्या सह प्रत्यक्षसम्बन्धः अनिवार्यतः न भवति।
आईआईटी मद्रासस्य गुवाहाटीविश्वविद्यालयस्य च शोधकर्तृभिः एतस्य भेदस्य अवगमनाय सञ्जालविज्ञानस्य जटिलतन्त्राणां च अध्ययनं मौसमविज्ञानेन सह संयोजितम्। अस्यां पद्धतौ देशस्य विभिन्नभौगोलिकक्षेत्राणि जलवायुसञ्जालस्य केन्द्रबिन्दुरूपेण परिगण्यन्ते। एतेषां केन्द्रबिन्दूनां मध्यवर्तिसम्बन्धाः विभिन्नस्थानेषु वर्षारम्भस्य स्थानिकसम्बद्धतां प्रदर्शयन्ति। शोधकर्तारः अध्ययनेन ज्ञातवन्तः यत् विभिन्नक्षेत्रेषु आरभ्यमाणा स्थानीयवृष्टिः कथं शनैः शनैः बृहत्तरस्य परस्परसम्बद्धस्य वर्षासमूहस्य भागः भवति।
अस्य अध्ययनस्य सर्वाधिकं महत्त्वपूर्णं वैशिष्ट्यम् इदम् अस्ति यत् कस्मिंश्चित् स्थाने प्रथमवृष्टिमेव मानसूनस्य आगमनं न मन्यते, अपितु तस्मिन् समये वास्तविकमारम्भः स्वीक्रियते, यदा तत्रत्यवृष्टिः व्यापकमानसूनीवर्षाप्रणाल्याः बृहत्तमे परस्परसम्बद्धे समूहे सम्मिलिता भवति। शोधकर्तारः एतत् जलवायुसञ्जाले ‘फेज ट्रांजिशन’ अर्थात् अवस्थापरिवर्तनम् इति वर्णितवन्तः।
प्रो. आर.आई. सुजीतेन शोधस्य महत्त्वं प्रतिपादितम्
आईआईटी मद्रासस्य जटिलतन्त्रेषु निर्णायकपरिवर्तनाध्ययनस्य उत्कृष्टताकेन्द्रस्य (सीओई-सीटीसीएस) प्रमुखः प्रो. आर.आई. सुजीतः शोधस्य निष्कर्षान् महत्त्वपूर्णान् वर्णयन् अवदत् यत् कस्मिंश्चित् स्थाने मानसूनस्य आगमनं अनिवार्यतः तत्रत्यप्रथमवृष्ट्या निर्धारितं न भवति। वास्तविकः प्रारम्भः तदा भवति, यदा स्थानीयवृष्टिगतिविधिः परस्परसम्बद्धवृष्टिगतिविधीनां बृहत्तमस्य व्यापकसमूहस्य भागः भवति।
तस्य मतानुसारं भौतिकदृष्ट्या अस्य अर्थः अस्ति यत् तस्मिन् क्षेत्रे वृष्टिः अधुना किञ्चित्कालं यावत् भवमानायाः स्थानीयमौसमीघटनायाः सीमाम् अतिक्रम्य व्यापकमानसूनीप्रणाल्याः भागः अभवत्। शोधकर्तारः एतस्मिन् परिवर्तनं जलवायुसञ्जाले अवस्थापरिवर्तनरूपेण अभिज्ञातवन्तः।
प्रो. सुजीतः अवदत् यत् अस्याः नवीनपद्धतेः एकः प्रमुखः लाभः अस्ति यत् अनया मानसूनस्य मिथ्याप्रारम्भस्य परिचये त्रुटेः निवारणे सहायता मिलितुं शक्नोति। एतेन कृषकाणां वपनसमयनिर्धारणे तथा नीतिनिर्मातॄणां खाद्यसुरक्षायाः जलसंसाधनानां च प्रबन्धनस्य उत्तमयोजनानिर्माणे सहायता भविष्यति। सः आईआईटी मद्रासस्य एयरोस्पेस् अभियान्त्रिकीविभागे संस्थानस्य प्रोफेसरः तथा डी. श्रीनिवासन संस्थानस्य अध्यक्षप्रोफेसरः अपि अस्ति।
चतुरशीतिवर्षाणां दत्तांशैः मानसूनस्य समयसारणी प्रकाशिता
अस्मिन् शोधे चतुरशीतिवर्षाणां वर्षासम्बद्धदत्तांशानां विश्लेषणं कृतम्। तस्य आधारेण शोधकर्तारः ज्ञातवन्तः यत् जलवायोः सामान्यपरिस्थितिषु पूर्वोत्तरभारते व्यापकवर्षाप्रणाल्याः प्रारम्भः प्रायः मईमासस्य पञ्चदशदिनाङ्कस्य समीपे भवति, यदा भारतीयप्रायद्वीपे तस्याः आगमनं प्रायः जूनमासस्य नवमदिनाङ्कस्य समीपे अभिलेखितं भवति।
शोधे ज्ञातं यत् व्यापकवर्षाप्रणाल्याः निर्माणम् अकस्मादेव भवति। प्रारम्भे स्थानीयस्तरे वर्षायाः लघवः समूहाः निर्मीयन्ते। ततः एतेषां समूहानां आकारः परस्परसम्बद्धता च शीघ्रं वर्धते। बृहत्तमवर्षासमूहस्य आकस्मिकविस्तारः व्यापकमानसूनारम्भस्य महत्त्वपूर्णं सङ्केतं भवति। अनन्तरम् एषा प्रणाली देशस्य विभिन्नभागेषु अग्रे गच्छन्ती उत्तरदिशि प्रसारिता भवति।
अस्याः प्रक्रियायाः स्पष्टीकरणाय शोधकर्तृभिः पूर्वोत्तरभारतस्य उदाहरणं प्रस्तुतम्। अप्रैलमासे अत्र मेघगर्जनायाः स्थानीयमौसमीगतिविधीनां च कारणेन वर्षायाः लघवः समूहाः निर्मातुम् आरभन्ते। ऋतौ अग्रे गते एते समूहाः बृहत्तराः भवन्ति तथा च बङ्गालस्य उपसागरक्षेत्रेण सम्बद्धैः वर्षासमूहैः सह मिलित्वा व्यापकप्रणाल्याः रूपं गृह्णन्ति। अस्य बृहत्तरसमूहस्य आकस्मिकविस्तारः पूर्वोत्तरभारते मानसूनस्य व्यापकप्रारम्भरूपेण अभिज्ञायते।
एवमेव भारतीयप्रायद्वीपे केरलस्य समीपे स्थानीयवृष्टेः एकः लघुः समूहः निर्मीयते। यदा एषः समूहः पूर्वोत्तरभारततः पश्चिमदिशि प्रसार्यमाणया बृहत्तमया वर्षाप्रणाल्या सह सम्बद्धः भवति, तदा तत् भारतीयप्रायद्वीपे व्यापकमानसूनारम्भरूपेण स्वीक्रियते। एवं नवीनपद्धतिः केरले भवमानायाः स्थानीयवृष्टेः वास्तविकमानसूनीप्रणाल्याः आगमनस्य च मध्ये स्पष्टं भेदं कर्तुं शक्नोति।
२०२६ तमस्य वर्षस्य मानसूनस्य अपि निरीक्षणं कृतम्
शोधकर्तारः अस्याः नवीनवैज्ञानिकपद्धतेः उपयोगं २०२६ तमस्य वर्षस्य मानसूनस्य निरीक्षणाय अपि कृतवन्तः। अध्ययनानुसारं भारतीयप्रायद्वीपे व्यापकमानसूनस्य आगमनं २०२६ तमस्य वर्षस्य जूनमासस्य द्वाविंशतितमदिनाङ्के अभवत्। तदनन्तरं मानसूनीवृष्टेः प्रणाली उत्तरदिशि अग्रे अगच्छत्। मुम्बईनगरे जूनमासस्य चतुर्विंशतितमदिनाङ्कपर्यन्तं तथा दिल्लीप्रदेशे जुलाईमासस्य प्रथमदिनाङ्कपर्यन्तं तीव्रवृष्टिगतिविधयः अभिलेखिताः।
शोधे मानसूनस्य उत्तरदिशि तीव्रगतिना प्रसारः मानसूनस्य अन्तःऋतुकदोलनस्य (एमआईएसओ) प्रथमतरङ्गेण सह अपि सम्बद्धः। एषा मानसूनकाले व्यापकस्तरे वर्षागतिविधीनां उतारचढावस्य तासां प्रसारस्य च सम्बद्धा मौसमीप्रक्रिया अस्ति। शोधकर्तॄणां मतानुसारम् अस्याः प्रक्रियायाः अध्ययनं नवीनपद्धत्या अभिज्ञातस्य मानसूनागमनस्य अतिरिक्तं भौतिकाधारं प्रददाति।
पारम्परिकमौसमपूर्वानुमानस्य विकल्पः न, अपितु अतिरिक्तवैज्ञानिकाधारः
गुवाहाटीविश्वविद्यालयस्य एसटी रडारकेन्द्रस्य प्रो. बी.एन. गोस्वामी अस्मिन् विषये अवदत् यत् एषा पद्धतिः मानसूनस्य पारम्परिकसञ्चालनात्मकपरिभाषाः परिवर्तयितुं न, अपितु तासां वैज्ञानिकाधारं अधिकं सुदृढं कर्तुम् उद्दिश्य विकसितास्ति। अस्याः विशेषता अस्ति यत् एषा कस्मिंश्चित् स्थाने जायमानां स्थानीयवृष्टिं व्यापकमानसूनीगतिविधिभिः सह संयोज्य पश्यति। एतेन देशस्य विभिन्नक्षेत्रेषु मानसूनस्य व्यापकप्रारम्भं एकस्यैव वैज्ञानिकपरिप्रेक्ष्यस्य अन्तर्गतं ज्ञातुं शक्यते।
अस्य शोधस्य संयुक्तरूपेण निर्माणं योगेनराज पाटिलः, गौरव चोपड़ा, श्रुति टंडन, आईआईटी मद्रासस्य प्रो. आर.आई. सुजीतः तथा गुवाहाटीविश्वविद्यालयस्य प्रो. बी.एन. गोस्वामी च कृतवन्तः।
उल्लेखनीयं यत् भारतसदृशे कृषिप्रधाने देशे मानसूनस्य सटीकसूचनायाः महत्त्वं मौसमपूर्वानुमानात् बहुदूरं विस्तृतम् अस्ति। अस्य कृषकाणां निवेशेन, सस्यचक्रेण, सिञ्चनव्यवस्थया, जलाशयेषु जलसञ्चयेन, पेयजलापूर्त्या, बाढनिवारणसज्जतया च प्रत्यक्षः सम्बन्धः अस्ति। अतः स्थानीयवृष्टेः व्यापकमानसूनीप्रणाल्याश्च मध्ये भेदं ज्ञातुं समर्था एषा प्रौद्योगिकी भविष्ये मौसमविज्ञानस्य आपदाप्रबन्धनस्य च कृते महत्त्वपूर्णं साधनं भवितुम् अर्हति। अस्याः उपयोगिता अस्मिन् निहिता अस्ति यत् एषा मानसूनं केवलं वृष्टिरूपेण न दृष्ट्वा विशालां परस्परसम्बद्धां जलवायुप्रणालीं रूपेण अवगन्तुं नवीनं वैज्ञानिकमार्गं प्रशस्तं करोति।
Hindusthan Samachar / Dheeraj Maithani