जलवायुपरिवर्तनात् पर्वतीयक्षेत्राणां रक्षणाय अनुकूलनवित्तस्य वर्धनम् आवश्यकम् - खानालः
काठमाण्डूनगरम्, १० नवम्बरमासः (हि.स.)। नेपालस्य विदेशमन्त्री शिशिरखानालः जलवायुपरिवर्तनस्य वर्धमानप्रभावेभ्यः पर्वतीयक्षेत्राणां रक्षणाय अनुकूलनवित्तस्य सङ्ग्रहणे तस्य सुलभतया उपलब्धतायां च बलं दत्तवान्। तेन उक्तं यत् जलवायुपरिवर्तनस्य प्रभावानां न
तुर्की में आयोजित सम्मेलन में बोलते नेपाल के विदेश मंत्री


काठमाण्डूनगरम्, १० नवम्बरमासः (हि.स.)। नेपालस्य विदेशमन्त्री शिशिरखानालः जलवायुपरिवर्तनस्य वर्धमानप्रभावेभ्यः पर्वतीयक्षेत्राणां रक्षणाय अनुकूलनवित्तस्य सङ्ग्रहणे तस्य सुलभतया उपलब्धतायां च बलं दत्तवान्। तेन उक्तं यत् जलवायुपरिवर्तनस्य प्रभावानां निवारणाय पर्वतीयदेशेभ्यः पर्याप्ता सुलभा च वित्तीयसहायता उपलब्धा कारयितुं आवश्यकी अस्ति।

विदेशमन्त्री खानालः तुर्किये-देशस्य अन्ताल्यानगरे प्रारब्धस्य संयुक्तराष्ट्र-सङ्घस्य जलवायुपरिवर्तनरूपरेखा-सम्मेलनस्य ३१ तमस्य पक्षकार-सम्मेलनस्य अवसरे आयोजिते उच्चस्तरीयकार्यक्रमे सम्बोधनं कुर्वन् एतत् उक्तवान्। ‘अनुकूलनवित्त-माध्यमेन पर्वतीयक्षेत्राणां सहनशीलतायाः सुदृढीकरणम्’ इति शीर्षकेण आयोजितस्य अस्य कार्यक्रमस्य संयुक्तायोजनं नेपालदेशेन, भूटानदेशेन, किर्गिस्तान-देशेन च कृतम् आसीत्। अस्मिन् कार्यक्रमे समेकितपर्वतीय-विकासाय अन्ताराष्ट्रियकेन्द्रेण तथा जॉय एनवायरनमेण्ट नेटवर्क इत्यनेन सहयोगः कृतः।

खानालेन नेपालदेशे अद्यतनकाले अभवत् विनाशकारीजलप्लावनं ‘हिमालयीय-सुनामी’ इति वर्णितम्। तेन अस्मात् जलप्लावनात् अभवतां आर्थिकानां, भौतिकानां, मानवीयानां च क्षतीनां उल्लेखः कृतः। तेन उक्तं यत् जलवायुपरिवर्तनस्य वर्धमानदुष्प्रभावेभ्यः पर्वतीयक्षेत्राणां रक्षणाय तथा आपदः अनन्तरं पुनः सामान्यस्थितिं प्राप्तुं तेषां क्षमतायाः सुदृढीकरणाय क्षेत्रीयस्तरे वैश्विकस्तरे च ऐक्यं सहयोगश्च आवश्यकौ स्तः।

खानालेन उक्तं यत् विश्वस्य प्रायः एकतृतीयांशजनसङ्ख्या प्रत्यक्षतया पर्वतीयपारिस्थितिकीतन्त्रेषु निर्भरास्ति। अतः पर्वतीयक्षेत्राणां सुरक्षा संरक्षणं च संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तन-सम्बद्धायां प्रक्रियायां प्राथमिकतां प्राप्नुयाताम्।

तेन जलवायुपरिवर्तनस्य प्रभावानां निवारणाय अनुकूलनक्षेत्रे वित्तीय-सहायतायाः वर्धनस्य आवश्यकतायाः विषये अपि बलं दत्तम्। खानालेन अन्ताराष्ट्रियसमुदायम् आहूतं यत् एतादृशी जलवायुवित्तव्यवस्था विकसितव्या, यस्याः माध्यमेन पर्याप्ताः, पूर्वानुमेयाः, सुलभतया उपलब्धाश्च वित्तीयसंसाधनाः सुनिश्चिताः भवेयुः।

विदेशमन्त्रिणा वैश्विकतापमानवृद्धिं १.५ डिग्री सेल्सियसपरिमितं स्थापयितुं निर्धारितं लक्ष्यं प्राप्तुं सम्भावनाः अक्षुण्णाः स्थापयितुम् अपि आह्वानं कृतम्। तेन उक्तं यत् जलवायुपरिवर्तनस्य गम्भीरप्रभावेभ्यः पर्वतीयक्षेत्राणां रक्षणाय अन्ताराष्ट्रिय-समुदायेन दृढसहयोगः वित्तीयप्रतिबद्धता च प्रदर्शनीया।

Hindusthan Samachar / Divya Ranjan