Enter your Email Address to subscribe to our newsletters

स्टीमरयानमाध्यमेन नासरीगञ्जघाटात् गायघाटं कङ्गनघाटं च प्राप्तवान्।
अधिकारिभ्यः समये एव सर्वाः व्यवस्थाः पूर्णाः कर्तुं निर्देशाः प्रदत्ताः।
पाटलिपुत्र:, १० नवम्बरमासः (हि.स.)। लोकश्रद्धायाः महापर्वणः छठपूजायाः सज्जतायाः सन्दर्भे भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः मङ्गलवासरे पटनानगरे गङ्गातटे स्थितानां विभिन्नानां छठपूजाघाट्टानां निरीक्षणम् अकरोत्। सः दीघाक्षेत्रस्य नासरीगञ्ज-घाटात् गायघाटं कङ्गनघाटं च स्टीमरयानमाध्यमेन गत्वा तत्र विद्यमानानां व्यवस्थाणां निरीक्षणम् अकरोत् तथा च अधिकारिभ्यः आवश्यकसूचनाः प्राप्तवान्।
निरीक्षणसमये बिहारस्य मुख्यमन्त्री सम्राटचौधरी, उपमुख्यमन्त्री विजयकुमार-चौधरी, प्रदेशभाजपाध्यक्षः सञ्जयसरावगी इत्यादयः दलस्य अनेके वरिष्ठनेतारः प्रशासनिकाधिकारिणश्च उपस्थिताः आसन्।
नितिननवीनः गङ्गातटे छठव्रतिनां श्रद्धालूनां च सुविधार्थं कृतानां व्यवस्थाणां समीक्षाम् अकरोत्। तेन घट्टानां स्वच्छतायाः समतलीकरणस्य च, सुरक्षार्थं स्थापितानां अवरोधकानां निरीक्षण-स्तम्भानां च, महिलानां कृते वस्त्रपरिवर्तनकक्षाणां, पेयजलस्य उपल-ब्धतायाः, प्रकाशव्यवस्थायाः, निर्बाध-विद्युत्प्रदायस्य, आपत्कालीनचिकित्सा-सुविधायाः सुरक्षाव्यवस्थायाश्च निरीक्षणं कृतम्।
निरीक्षणानन्तरं नितिननवीनः अवदत् यत् छठमहापर्व बिहारस्य गहनश्रद्धायाः संस्कृतेः समृद्धायाः लोकपरम्परायाश्च अभिन्नम् अङ्गम् अस्ति। एतत् पर्व धार्मिकनिष्ठया सह सामाजिकसमरसतायाः, अनुशासनस्य, प्रकृत्या सह सम्बन्धस्य च सन्देशं ददाति।
तेन उक्तं यत् गङ्गातटे सूर्याय अर्घ्यं समर्पयितुम् आगच्छन्तः सर्वे छठव्रतिनः सुरक्षितं, स्वच्छं, सुविधाजनकं च वातावरणं प्राप्नुयुः, एतदर्थं बिहारसर्वकारः सामान्यजनाश्च संयुक्तरूपेण प्रयासं कुर्वन्ति।
भाजपाध्यक्षेण सूचितं यत् प्रशासनाय निर्देशाः प्रदत्ताः सन्ति यत् सर्वाः आवश्यकव्यवस्थाः समयात् पूर्वमेव पूर्णाः क्रियेरन्, येन श्रद्धालुभ्यः पूजासमये कापि असुविधा न भवेत् तथा च ते पूर्णोत्साहेन श्रद्धया च महापर्व आचरितुं शक्नुयुः।
Hindusthan Samachar / Divya Ranjan