Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० अक्टूबर (हि.स.)। उद्योग-आन्तरिकव्यापारप्रवर्धनविभागेन राष्ट्रीय-स्टार्टअप-पुरस्कारस्य षष्ठसंस्करणाय आवेदनानि आमन्त्रितानि सन्ति। अस्य अन्तर्गतं प्रत्येकस्मिन् वर्गे विजेतृभ्यः २५ लक्षरूप्यकाणां पुरस्कारः प्रदास्यते।
डीपीआईआईटी इत्यनेन सामाजिकमाध्यमे ‘एक्स’ इत्यत्र प्रकाशितेन सन्देशेन सूचितं यत् अस्य माध्यमेन देशस्य विभिन्नभागेषु स्थितानां तेषां स्टार्टअप-संस्थानां सम्मानः क्रियते, येषां कार्याणि नवाचारीणि सन्ति, येषां विस्तारः बृहद्स्तरे कर्तुं शक्यते तथा च ये समाजे सकारात्मकं प्रभावं जनयन्ति। राष्ट्रीय-स्टार्टअप-पुरस्कारस्य ६.० संस्करणाय आवेदनप्रक्रिया २०२६ तमस्य वर्षस्य अक्टोबरमासस्य २७ दिनाङ्कात् नवम्बरमासस्य २० दिनाङ्कपर्यन्तं प्रचलिष्यति।
उद्योग-आन्तरिकव्यापारप्रवर्धनविभागस्य अनुसारम्, एतेषां पुरस्काराणां माध्यमेन नवोन्मेषः, विस्तारक्षमता, सततविकासः तथा सामाजिक-आर्थिकप्रभावः इत्येतेषु क्षेत्रेषु उत्कृष्टं प्रदर्शनं कुर्वन्तः स्टार्टअप-संस्थाः चिह्नीकृत्य सम्मानिताः भविष्यन्ति।
राष्ट्रीय-स्टार्टअप-पुरस्कारस्य आयोजनं वाणिज्य-उद्योगमन्त्रालयस्य ‘स्टार्टअप-इण्डिया’ इति उपक्रमस्य अन्तर्गतं क्रियते। अस्य उपक्रमस्य उद्देश्यम् कृषिक्षेत्रात् अन्तरिक्षप्रौद्योगिकीपर्यन्तं २० विभिन्न-क्षेत्रेषु उल्लेखनीययोगदानं कुर्वतां उद्यमानां परिचयः कृत्वा तेषां राष्ट्रियस्तरे मान्यताप्रदानम् अस्ति।
एतेषु पुरस्कारेषु महिलानेतृत्वयुक्तानां स्टार्टअप-संस्थानां, पूर्वोत्तरक्षेत्रस्य उत्कृष्टानां स्टार्टअप-संस्थानां, छात्रनवो-न्मेषकानां तथा नवोद्यमिनां कृते विशेषवर्गाः अपि समाविष्टाः सन्ति। डीपीआईआईटी-मान्यताप्राप्ताः स्टार्टअप-संस्थाः २० क्षेत्रीयवर्गेषु तथा निर्धारितेषु विशेषवर्गेषु आवेदनं कर्तुं शक्नुवन्ति। विभागेन २.६ लक्षाधिकाः स्टार्टअप-संस्थाः मान्यताप्राप्ताः सन्ति।
विभागेन स्टार्टअप-संस्थाः तथा छात्रनवोन्मेषकाः (१० वर्षेभ्यः अधिकवयस्काः) आमन्त्रिताः सन्ति, ये २३ पुरस्कारवर्गेषु स्वव्यावहारिकसमाधानानि प्रस्तोतुं शक्नुवन्ति। एतेषु क्षेत्रविशिष्टाः विशेषपुरस्काराश्च अपि अन्तर्भवन्ति। स्वनवोन्मेषान् राष्ट्रियमञ्चं प्रति आनयितुं इच्छुकाः आवेदकाः ‘स्टार्टअप-इण्डिया’ इति पोर्टल्-माध्यमेन आवेदनं कर्तुं शक्नुवन्ति।
आवेदनार्थं जालपुटम् — https://startupindia.gov.in/content/sih/en/nsa2026.html
#NSA6 #नवोन्मेषः
Hindusthan Samachar / Divya Ranjan