Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १० नवम्बरमासः (हि.स.)। देशे प्रधानमन्त्रिणः स्वास्थ्यसुरक्षायोजनायाः अन्तर्गतं स्थापितेषु नूतनेषु अखिल-भारतीयायुर्विज्ञानसंस्थानेषु विगतेषु पञ्चवर्षेषु षट्कोट्यधिकाः बहिरङ्गरोगि-विभागीयाः चिकित्सापरामर्शाः अभि-लेखिताः सन्ति।
केन्द्रीयस्वास्थ्य मन्त्रालयेन मङ्गलवासरे प्रकाशितानां आँकडानाम् अनुसारं २०२६ तमस्य वर्षस्य अक्टोबरमासस्य ३१ दिनाङ्कपर्यन्तं सर्वेषु एम्स्-संस्थानेषु कुलम् ६.०१ कोटिः ओपीडी-चिकित्सा-परामर्शाः अभवन्। एषा उपलब्धिः देशे विशेषज्ञस्तरीयानां उच्चस्तरीयाणां च स्वास्थ्यसेवानां वर्धमानां सुलभतां प्रदर्शयति।
मन्त्रालयेन प्रकाशितायां सूचनायां कथितं यत् पीएमएसएसवाई-योजनायाः अन्तर्गतं विभिन्नेषु चरणेषु कुलम् २२ नूतनानि एम्स्-संस्थानानि अनुमोदितानि सन्ति, तेषु १८ संस्थानानि पूर्णतया सञ्चालितानि सन्ति। एतानि संस्थानानि बहिरङ्ग-रोगिविभागः, अन्तःरोगिविभागः , आपत्कालीन-आघातचिकित्सासेवाः, परीक्षणसुविधाः, चिकित्साशिक्षा, अनु-सन्धानम् इत्यादीनि व्यापकाणि सेवानि प्रददति।
नूतनेषु एम्स्-संस्थानेषु ओपीडी-चिकित्सापरामर्शानां सङ्ख्यायां निरन्तरं वृद्धिः अभिलेखिता अस्ति। २०२१-२२ तमे वित्तवर्षे यत्र ५०.०३ लक्षाः ओपीडी-चिकित्सापरामर्शाः अभवन्, तत्रैव २०२२-२३ तमे वित्तवर्षे एषा सङ्ख्या वर्धित्वा ७७.९५ लक्षं, २०२३-२४ तमे वित्तवर्षे च १००.५२ लक्षम् अभवत्। २०२४-२५ तमे वित्तवर्षे १२९.९८ लक्षाः तथा २०२५-२६ तमे वित्तवर्षे १४४.९६ लक्षाः ओपीडी-चिकित्सापरामर्शाः अभिलेखिताः। २०२६-२७ तमे वित्तवर्षे अक्टोबर-मासपर्यन्तं नूतनेषु एम्स्-संस्थानेषु ९७.४१ लक्षाः ओपीडी-रोगिणः चिकित्सापरामर्शं प्राप्तवन्तः।
मन्त्रालयेन सूचितं यत् नूतनेषु एम्स्-संस्थानेषु स्नातक, स्नातकोत्तर तथा परिचर्याशिक्षायाः अवसराणामपि विस्तारः कृतः अस्ति। तेन सह विशिष्टचिकित्सा-सुविधानां उन्नतचिकित्सासेवानां च विकासः क्रियमाणः अस्ति। सर्वकारस्य एषा पहलः देशे चिकित्साशिक्षायाः, अनुसन्धानस्य, उच्चस्तरीयस्वास्थ्यसेवानां च आधारभूतसंरचनायाः सुदृढीकरणे महत्त्वपूर्णं योगदानं ददाति। नूतनानां एम्स-संस्थानानां विस्तारेण जनाः स्वक्षेत्रस्य समीपे एव उत्तमं विशेषज्ञचिकित्सां प्राप्तुं शक्नुवन्ति।
Hindusthan Samachar / Divya Ranjan