साइबरापराधानां विषये आरक्ष्यधिकारिभिः स्वकार्यशैल्यां परिवर्तनम् आनेतव्यम् : राष्ट्रपतिः
नवदिल्ली, 10 नवंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मूः साइबरापराधानां वर्धमानगाम्भीर्यस्य तथा डीपफेक् सामग्रीभ्यः उत्पद्यमानानां संकटानां परिप्रेक्ष्ये आरक्ष्यधिकारिभ्यः स्वकार्यशैल्यां दृष्टिकोणे च परिवर्तनम् आनेतुं परामर्शं दत्तवती। सा अवदत् य
राष्ट्रपति द्रौपदी मुर्मु मंगलवार को राष्ट्रपति भवन में भारतीय पुलिस सेवा (आईपीएस) के 78वें बैच (2025 बैच) के प्रशिक्षु अधिकारियों को संबोधित करते हुए


नवदिल्ली, 10 नवंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदीमुर्मूः साइबरापराधानां वर्धमानगाम्भीर्यस्य तथा डीपफेक् सामग्रीभ्यः उत्पद्यमानानां संकटानां परिप्रेक्ष्ये आरक्ष्यधिकारिभ्यः स्वकार्यशैल्यां दृष्टिकोणे च परिवर्तनम् आनेतुं परामर्शं दत्तवती। सा अवदत् यत् आरक्षिभिः अत्याधुनिकप्रौद्योगिकीनाम् उपयोगं कुर्वद्भ्यः अपराधिभ्यः सर्वदा एकं पदम् अग्रे स्थातव्यम्।

राष्ट्रपतिः मङ्गलवासरे राष्ट्रपतिभवने भारतीयारक्षिसेवायाः (आईपीएस) अष्टसप्ततितमस्य समूहस्य (२०२५ समूहस्य) प्रशिक्षुभिः अधिकारिभिः सह मिलित्वा तान् सम्बोधयन्ती एतद् उक्तवती। सा अवदत् यत् साइबरापराधानां क्षेत्रं निरन्तरं विस्तृतं भवति तथा च ते अधिकं गम्भीराः भवन्ति। आरक्षिभिः समाजे साइबरापराधानां गाम्भीर्यविषये व्यापकस्तरे जागरूकता प्रसारणीया।

राष्ट्रपतिः अवदत् यत् जनानां मनसि भयम् उत्पादयितुं दुष्प्रचारस्य प्रसारणम् एकः गम्भीरः समस्यारूपेण उद्भवति। विशेषतः युववर्गः सुनियोजितदुष्प्रचारेण प्रभावितः भवितुम् अर्हति। एतादृशाः गतिविधयः स्थानीयस्तरे, क्षेत्रीयस्तरे, राष्ट्रियस्तरे च भवितुम् अर्हन्ति। सा अवदत् यत् सतर्का दक्षाश्च आरक्षिव्यवस्था एतादृशीः परिस्थितीः गम्भीररूपं ग्रहीतुं निवारयितुं शक्नोति।

सा अवदत् यत् सामान्यनागरिकाणां कृते आरक्ष्यधिकारिणः आरक्षिणश्च शासनप्रशासनस्य प्रतीकाः भवन्ति। यदा आरक्षिव्यवस्था सम्यक् कार्यं करोति तदा जनाः शासनमपि श्रेष्ठं मन्यन्ते। आरक्ष्यधिकारिणः यदा संवेदनशीलतया सावधानतया च जनानां परिवेदनाः शृण्वन्ति तदा तेन तेषु विश्वासस्य सुरक्षायाश्च भावना जायते।

राष्ट्रपतिः प्रशिक्षुभ्यः अधिकारिभ्यः अवदत् यत् ते समाजस्य दुर्बलानां आर्थिकदृष्ट्या पश्चात्पदानां च वर्गाणां जनानां समस्याभ्यः प्राथमिकता देयुः। एतेषां जनानां वरिष्ठाधिकारिणां समीपं पहुँचः प्रायः सीमिता भवति। अतः तेषां शङ्कानां निवारणं परिवेदनानां समाधानं च आरक्ष्यधिकारिणां दायित्वं भवेत्।

सा अवदत् यत् आरक्षिव्यवस्थायां केचन कर्मचारी प्रौद्योगिक्याः उपयोगे वरिष्ठाधिकारिभ्यः अपि अधिकं निपुणाः भवितुम् अर्हन्ति। अतः वरिष्ठाधिकारिभिः स्वदलस्य कनिष्ठसदस्येभ्यः अपि शिक्षितुं सङ्कोचः न कर्तव्यः। सा आरक्ष्यधिकारिभ्यः कार्यशैल्यां जनसहभागितायाः दलभावनायाश्च प्रोत्साहनं दातुं तथा च स्वाधीनस्थानां कर्मचारिणां कल्याणाय प्राथमिकतां प्रदातुं परामर्शं दत्तवती।

राष्ट्रपतिः अवदत् यत् आरक्ष्यधिकारिभ्यः विधिभिः नियमैश्च व्यापकाः अधिकाराः प्राप्यन्ते, किन्तु जनसमाजे वास्तविकः सम्मानः तेषां कार्यव्यवहारस्य मूल्यानां च आधारेण एव प्राप्यते। अधिकारिषु नागरिकाणां सेवां कर्तुं प्रतिबद्धता भवेत्, न तु तेषां प्रति श्रेष्ठत्वस्य भावना।

---------------

Hindusthan Samachar / Dheeraj Maithani