Enter your Email Address to subscribe to our newsletters

कोलकाता, १० नवम्बरमासः (हि.स.)। विष्णुपुरघराणा इत्यस्य प्रख्यातस्य सितार-वादकस्य पण्डितमणिलालनागस्य सोमवासरे अर्धरात्रौ कोलकातानगरस्य चिकित्सालये निधनम् अभवत्। सः ८७ वर्षीयः आसीत्। तस्य परिवारे पत्नी, एकः पुत्रः एका पुत्री च स्तः। तस्य पुत्री मीतानाग: अपि प्रसिद्धा सितारवादिका अस्ति। सः स्वपश्चात् असंख्यान् शिष्यान् विशालं च शिष्यपरिवारं त्यक्तवान्।
वयोवृद्धः सितारवादकः वृद्धावस्था-जन्यरोगैः दीर्घकालात् अस्वस्थः आसीत्। १९३९ तमे वर्षे जन्म प्राप्तवान् मणिलाल नागः सङ्गीतशिक्षां पैतृकपरम्परया प्राप्तवान्। तस्य पिता गोकुल नागः अपि विष्णुपुरघराणस्य प्रतिष्ठितः सितारवादकः आसीत्। मणिलाल नागः सङ्गीतस्य प्रारम्भिकशिक्षां स्वपितुरेव प्राप्तवान्। स्वदीर्घे यशस्विनि च सङ्गीतजीवनकाले तेन देशविदेशयोः अनेकासु प्रतिष्ठितासु सङ्गीतसभासु स्ववादनकौशलस्य प्रभावः प्रदर्शितः तथा विष्णुपुरघराणस्य समृद्धायाः सङ्गीतपरम्परायाः वैश्विकस्तरे परिचयः स्थापितः।
सङ्गीतक्षेत्रे तस्य अमूल्ययोगदानाय तस्मै अनेकैः राष्ट्रियैः अन्ताराष्ट्रियैः च सम्मानैः सम्मानितः। २००१ तमे वर्षे सः प्रतिष्ठितेन सङ्गीतनाटक-अकादमी-पुरस्कारेण सम्मानितः। २०२० तमे वर्षे च देशस्य चतुर्थेन सर्वोच्चनागरिकसम्मानेन पद्मश्री-पुरस्कारेण अलङ्कृतः।
पण्डितमणिलालनागस्य परिवारस्य अनुसारं मङ्गलवासरे तस्य पार्थिवशरीरं निवासस्थानात् राज्यसङ्गीत-अकादमीं नीयते, येन तस्य प्रशंसकाः सङ्गीत-प्रेमिणश्च अन्तिमदर्शनं कर्तुं शक्नुयुः। ततः तस्य अन्त्येष्टिसंस्कारः काशीपुर-महाश्मशाने करिष्यते।
Hindusthan Samachar / Divya Ranjan