Enter your Email Address to subscribe to our newsletters


गोवर्धनस्वरूपेण भगवान् जगन्नाथः दिव्यदर्शनम् अददात्, दीपैः अलङ्कृतः मन्दिरपरिसरः, श्रद्धालुभ्यः प्रसादः वितरितः
प्रयागराजः, १० नवम्बरमास: (हि.स.)। कटघरस्थिते काशीराजनगरस्य प्रयागेश्वर-जगन्नाथमन्दिरे मङ्गलवासरे श्रीजगन्नाथमहोत्सवसमितिट्रस्ट्-संस्थया काशीराजनगरोत्थानसमित्या च गोवर्धनमहाराजस्य अन्नकूटमहोत्सवः श्रद्धया हर्षोल्लासेन च आचरितः। अस्मिन् अवसरे भगवान् जगन्नाथः गोवर्धन-स्वरूपेण अलौकिकरीत्या शृङ्गारितः। ५६ प्रकारकाणां व्यञ्जनानां नैवेद्यं समर्प्य विधिविधानपूर्वकं पूजनम्, अर्चनं च कृत्वा आरार्तिकी कृता। मन्दिरे दीपदानस्य आयोजनं कृत्वा श्रद्धालुभ्यः प्रसादः वितरितः।
कार्यक्रमे ट्रस्ट्-संस्थायाः अध्यक्षः दुर्गाप्रसादगुप्तः वैदिकमन्त्राणाम् उच्चारणस्य मध्ये विधिविधानपूर्वकम् अन्नकूटपूजाम् अकारयत्। ततः समितेः मन्त्री गगनदासगुप्तः भगवते गोवर्धनगिरिधारिणे ५६ प्रकारकाणां व्यञ्जनानां नैवेद्यम् अर्पितवान्।
रथयात्रायाः संयोजकः राजेशकेसरवानी अवदत् यत् अन्नकूटमहोत्सवस्य अवसरे भगवान् जगन्नाथः गोवर्धनस्वरूपेण विशेषरूपेण शृङ्गारितः। श्रद्धालवः भगवतः दिव्यस्वरूपस्य दर्शनं कृत्वा सुखसमृद्ध्योः कामनाम् अकुर्वन्। सम्पूर्णः मन्दिरपरिसरः आकर्षकाभिः रङ्गोलीभिः दीपैश्च अलङ्कृतः। दीपदानस्य आरार्तिक्या: च अनन्तरं भक्तेभ्यः प्रसादः वितरितः।
भगवतः विशेषशृङ्गारं कार्तिकेय-श्रीवास्तवः, आयुषगुप्तः, अक्षतचौहानः, यथार्थसाहुः तथा इशान्तश्रीवास्तवः कृतवन्तः।
अस्मिन् अवसरे अमररस्तोगी, पूर्वपार्षदः विजयवैश्यः, पूर्वपार्षदः उमेशचन्द्रजाय-सवालः, शशिकान्तजायसवालः, दाऊ-दयालगुप्तः, जयरामगुप्तः, त्रिलोकीकेसर-वानी, हैप्पीकसेरा, सुनीलकुमारः, अजय-अग्रहरिः, कमलेशजायसवालः, लता-उपाध्यायाः च सहिताः ट्रस्ट्-संस्थायाः पदाधिकारिणः, कार्यकर्तारः बहुसङ्ख्यकाः श्रद्धालवश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan