हरकसिंहरावतस्य राजनीतेः संन्यासग्रहणस्य संचेतनां सहानुभूतिं प्राप्तुं कृतं राजनैतिकं प्रपञ्चम् - महेन्द्रभट्टः
देहरादूनम्, १० नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशाध्यक्षः तथा राज्यसभायाः सांसदः महेन्द्रभट्टः कांग्रेसनेतुः हरकसिंहरावतस्य राजनीतेः संन्यासग्रहणसम्बद्धं वक्तव्यं सहानुभूतिं प्राप्तुं कृतः राजनैतिकः प्रपञ्चः इति उक्तवान्। माध्यमैः सह वार
भाजपा प्रदेश अध्यक्ष महेंद्र भट्ट फाइल चित्र।


देहरादूनम्, १० नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशाध्यक्षः तथा राज्यसभायाः सांसदः महेन्द्रभट्टः कांग्रेसनेतुः हरकसिंहरावतस्य राजनीतेः संन्यासग्रहणसम्बद्धं वक्तव्यं सहानुभूतिं प्राप्तुं कृतः राजनैतिकः प्रपञ्चः इति उक्तवान्।

माध्यमैः सह वार्तालापे महेन्द्रभट्टः अवदत् यत् वर्तमानकाले एतादृशानां नेतॄणां राजनीतेः संन्यासग्रहणस्य चेतावनी दातुं आवश्यकता नास्ति, यतः जनतैव तान् राजनीतेः बहिः निष्कासयति। उत्तराखण्डस्य जनतया भ्रष्टाचाराय, अनैतिकतायै, तुष्टीकरणाय तथा विकासविरोधिन्यै राजनीतये कांग्रेसपक्षाय निर्वाचनात् निर्वाचनं यावत् शिक्षां प्रदत्ता इति सः अवदत्।

भट्टः कांग्रेसनेतृत्वस्य हरकसिंहरावतस्य च नैतिकतायाः विषये प्रश्नान् उत्थाप्य अवदत् यत् यदि दलस्य नैतिकता अवशिष्टा अस्ति, तर्हि अन्वेषणस्य समाप्तिपर्यन्तं हरकसिंहरावतः सङ्घटना-त्मकदायित्वेभ्यः पृथक् कर्तव्यः। व्यङ्ग्यं कुर्वन् सः अवदत् यत् यदि कांग्रेसपक्षः नैतिकतायाः अस्मिन् मापदण्डे कार्यवाही करोति, तर्हि तस्य अर्धाधिकाः नेतारः दलात् निष्कासनीयाः भविष्यन्ति।

भाजपायाः प्रदेशाध्यक्षः अवदत् यत् सम्पूर्णे प्रकरणे विधिः स्वकार्यं कर्तुं दातव्यः। आरक्षिबलं निष्पक्षतया अन्वेषणं करिष्यति तथा च अन्तिमं सत्यम् अपि प्रकाशं प्राप्स्यति। पीडितायाः प्रकरणे राजनीतिं न कर्तुं सः कांग्रेसनेतॄन् सावधानान् अकरोत्। अन्वेषणे दोषिणां तेषां राजनैतिक-सहायकानां च भूमिका अपि प्रकाशे आगमिष्यति इति सः अवदत्।

इदं प्रकरणं २००३ तमस्य वर्षस्य एकेन प्राचीनकथित-उत्पीडनप्रकरणेन सम्बद्धम् अस्ति। अद्यतने एव पीडितया महिलया पुनः हरकसिंहरावतस्य विरुद्धं गम्भीराः आरोपाः कृत्वा न्यायस्य याचना कृता अस्ति।

Hindusthan Samachar / Divya Ranjan