Enter your Email Address to subscribe to our newsletters

पौड़ी गढ़वालम्, 10 नवंबरमासः (हि.स.)।
प्रदेशकांग्रेससमित्या राज्यसर्वकारस्य विरुद्धं राजनैतिकान्, सामाजिकान् आर्थिकान् च विषयान् आधारीकृत्य हस्ताक्षरसङ्ग्रहपक्षस्य शुभारम्भः कृतः। मङ्गलवासरे प्रदेशकांग्रेसाध्यक्षः गणेशगोदियालः श्रीनगरस्य गोलापार्कतः अभियानस्य शुभारम्भं कृतवान्।
तेन दलस्य पदाधिकारिणः कार्यकर्तारश्च प्रदेशस्य ग्रामेषु, कस्बेषु, विपण्येषु नगरीयक्षेत्रेषु च अभियानं प्रापयितुं आहूताः। गोदियालः आरोपितवान् यत् प्रदेशस्य जनाः राजनैतिकस्य, सामाजिकस्य आर्थिकस्य च उत्पीडनस्य सामना कुर्वन्ति। तेन सर्वकारस्य उपरि अङ्किता भण्डारीप्रकरणस्य अभियुक्तानां रक्षणस्य, प्रदेशस्य भूमीनां कार्यावसराणां च विक्रयणस्य तथा आयाधिकसम्पत्तिसम्बद्धेषु प्रकरणेषु मन्त्रिणां विरुद्धं कार्यवाहीं निरोद्धुं प्रयासस्य आरोपाः कृताः।
तेन उक्तं यत् सर्वकारस्य कार्यप्रणालीं प्रति जनसामान्ये आक्रोशः अस्ति। तेन सूचितं यत् अभियानस्य अन्तर्गतं निर्धारिते बैनरे पञ्जीकरणपत्रे च जनानां हस्ताक्षराणि कारयिष्यन्ते। अस्मिन् जनाः स्वनामानि चलदूरवाणीक्रमाङ्कांश्च अपि लेखयिष्यन्ति। सङ्गृहीतहस्ताक्षराणां माध्यमेन प्रदेशस्य ज्वलन्तविषयेषु राज्यपालस्य ध्यानम् आकर्षयिष्यते।
गोदियालः जिलाध्यक्षेभ्यः, खण्डाध्यक्षेभ्यः सङ्घटनस्य सर्वेभ्यः पदाधिकारिभ्यश्च आग्रहं कृतवान् यत् अभियानस्य अन्तर्गतं सङ्गृहीतानि हस्ताक्षराणि नवम्बरमासस्य २० दिनाङ्कपर्यन्तं देहरादूनस्थिते प्रदेशकांग्रेसकार्यालये समर्पयेयुः, येन तानि राज्यपालाय समर्पयितुं शक्येरन्।
अस्मिन्नवसरे पौड़ीजिलाध्यक्षः विनोदनेगी, महानगरश्रीनगराध्यक्षः सूरजघिल्डियालः, महिला अध्यक्षः अञ्जुभट्टः, अरुणाकुमारः, वीरेन्द्रनेगी, सुधांशुनौडियालः, सूरजनेगी प्रियांशुमुयालः च सहिताः अन्ये कार्यकर्तारः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani