देहल्यां ‘नमो यमुना रिवर क्रूज सेवा’ इत्यस्य शुभारम्भः।
नव दिल्ली, 10 नवंबरमासः (हि.स.)। केन्द्रीयपोतपरिवहनजलमार्गमन्त्री सर्बानन्दसोनोवालः देहलीमुख्यमन्त्री रेखागुप्ता च मङ्गलवासरे सोनियाविहारक्षेत्रे यमुनानद्यां विकसितायाः ‘नमो यमुना रिवर क्रूज सेवा’ इत्यस्याः शुभारम्भम् अकुरुताम्। मुख्यमन्त्री कार
केंद्रीय बंदरगाह, पोत परिवहन एवं जलमार्ग मंत्री सर्बानंद सोनोवाल और दिल्ली की मुख्यमंत्री रेखा गुप्ता मंगलवार को सोनिया विहार में  नमो यमुना रिवर क्रूज सेवा का शुभारंभ  करते हुए


नव दिल्ली, 10 नवंबरमासः (हि.स.)।

केन्द्रीयपोतपरिवहनजलमार्गमन्त्री सर्बानन्दसोनोवालः देहलीमुख्यमन्त्री रेखागुप्ता च मङ्गलवासरे सोनियाविहारक्षेत्रे यमुनानद्यां विकसितायाः ‘नमो यमुना रिवर क्रूज सेवा’ इत्यस्याः शुभारम्भम् अकुरुताम्।

मुख्यमन्त्री कार्यक्रमं सम्बोधयन्ती अवदत् यत् मातुः यमुना देहलीनगरस्य परिचयस्य, संस्कृतेः, धार्मिकश्रद्धायाः, जीवनपरम्परायाश्च अभिन्नम् अङ्गम् अस्ति। सा देहलीनिवासिभ्यः शुभकामनाः प्रदाय अवदत् यत् अद्य राजधानीनगरस्य कृते ऐतिहासिकः अवसरः अस्ति।

सा अवदत् यत् ‘नमो यमुना रिवर सफारी’ केवलं क्रूजयानस्य नौकासेवायाश्च उपक्रमः नास्ति, अपितु मातरि यमुनायां श्रद्धायाः, प्रेम्णः, समर्पणस्य च भावनया सम्बद्धः प्रयासः अस्ति। अस्य माध्यमेन देहलीनगरस्य निवासिनः मातुः यमुनायाः अधिकं समीपम् आगन्तुं, तस्याः प्राकृतिकपरिवेशस्य अनुभवं कर्तुं, नद्या सह स्वकीयसम्बन्धं नवीनरूपेण अनुभवितुं च शक्ष्यन्ति। प्रकृतेः समीपं गन्तुम् एतादृशः अवसरः अधुना देहलीनिवासिभ्यः अपि उपलब्धः भविष्यति। पूर्वं जनाः प्रयागराजम् अथवा अन्यनगराणि गत्वा नौकाविहारस्य क्रूजयानयात्रायाश्च आनन्दम् अनुभवन्ति स्म, किन्तु अधुना एतादृशः अनुभवः देहल्यामेव सम्भविष्यति।

अस्मिन्नवसरे केन्द्रीयः राज्यमन्त्री हर्षमल्होत्रः, केन्द्रीयः राज्यमन्त्री शान्तनुठाकुरः, सांसदः मनोजतिवारी, देहलीमन्त्री प्रवेशसाहिबसिंहः, सरदारमनजिन्दरसिंहसिरसा, कपिलमिश्रः च उपस्थिताः आसन्।

मुख्यमन्त्री देहलीनिवासिनः स्वपरिवारैः सह अत्र आगन्तुं, बालकेभ्यः मातुः यमुनायाः दर्शनं कारयितुं, प्रकृतेः च आनन्दम् अनुभावयितुं आह्वयत्। सा अवदत् यत् अयं प्रयासः देहलीनगरस्य सकारात्मकप्रतिमां सुदृढां कर्तुं राजधानीनगरस्य पर्यटनक्षेत्राय नवीनां परिचितिं प्रदातुं च महत्त्वपूर्णं सोपानम् अस्ति।

मुख्यमन्त्रिणी पूर्ववर्तिसर्वकारान् आक्षिप्य अवदत् यत् पूर्वं विकासस्य स्थाने आरोप-प्रत्यारोपाणां बहानानां च राजनीतिः प्रचलति स्म। अधुना सर्वकारः तासां समस्याणां समाधानं कृत्वा देहलीनिवासिभ्यः उत्तमसुविधानां विकासं करोति।

सा अवदत् यत् देहलीनिवासिनां धार्मिकश्रद्धायाः परम्पराणां च सम्मानः सर्वकारस्य प्राथमिकता अस्ति। छठपर्वणः उल्लेखं कुर्वती सा अवदत् यत् पूर्वं देहलीनिवासिनः यमुनातटे पूजां कर्तुं कठिनताः अनुभवन्ति स्म, किन्तु वर्तमानसर्वकारेण स्वस्य प्रथमवर्षे एव यमुनातटे भव्यः छठमहोत्सवः आयोजितः। सा विश्वासं प्रकटितवती यत् अस्मिन् वर्षे अपि देहलीनिवासिनः गतवर्षापेक्षया अधिकभव्यतया छठपर्व आचरिष्यन्ति। देहलीनगरस्य जनैः राजधानीनगरस्य विकासाय जनहिताय च सर्वकारः निर्वाचितः अस्ति तथा सर्वकारः तामेव उत्तरदायित्वभावनां धारयन् कार्यं करिष्यति।

देहलीनगरस्य पर्यटनमन्त्री कपिलमिश्रः अवदत् यत् ‘नमो यमुना रिवर सफारी’ देहलीनगरस्य पर्यटनक्षेत्रे नवीनम् अनुभवं प्रदातुं महत्त्वपूर्णः उपक्रमः अस्ति। अत्र आगच्छन्तः पर्यटकाः यमुनायाः मनोहरदृश्यानाम् आनन्दम् अनुभावयितुं शक्ष्यन्ति। सङ्गीतमयजलप्रपातस्य माध्यमेन भगवान् श्रीकृष्णस्य लीलागाथा यमुनामातुः महिमा च सङ्गीतमाध्यमेन प्रस्तुतं करिष्यते।

अत्र सृजनात्मकक्षेत्रम्, भोजनक्षेत्रम्, क्रीडाक्रियाः, बालकानां क्रीडाक्षेत्रम् इत्यादयः सुविधाः अपि विकसिताः सन्ति, येन जनाः स्वपरिवारैः सह अत्र आगत्य उत्तमं समयं यापयितुं शक्नुयुः।

यमुनातटे पर्यटनस्य परिवहनसुविधानां च संवर्धनार्थं देहलीसर्वकारेण भारतीयान्तर्देशीयजलमार्गप्राधिकरणेन च मनोरञ्जकनौकाविहारस्य लघुदूरनौकापरिवहनसेवानां च प्रायोगिकी परियोजना प्रारब्धा अस्ति। अस्याः अन्तर्गतं वजीराबादबैराजतः जगतपुरपर्यन्तं प्रायः षड्किलोमीटरपरिमितः नदीभागः जलपरिवहनाय उपयुक्तः इति निर्धारितः। अत्र लघुयात्रीजलयानानां सञ्चालनार्थं न्यूनातिन्यूनं १.५ मीटर् नौसञ्चालनगभीरता निर्धारितास्ति।

सम्पूर्णयात्रायाः अवधिः प्रायः ३५ तः ४५ निमेषपर्यन्तं भविष्यति। यात्रिणः निर्धारितमार्गे नौकाविहारस्य अनुभवं प्राप्स्यन्ति तथा यात्रासमाप्त्यनन्तरं स्वप्रारम्भिकस्थलं प्रत्यागन्तुं शक्ष्यन्ति। यात्रिणां कृते परिसरप्रवेशशुल्कं ५० रूप्यकाणि तथा क्रूजयानस्य सम्पूर्णयात्रायाः प्रस्तावितं शुल्कं ५०० रूप्यकाणि निर्धारितम् अस्ति।

परियोजनायाः अन्तर्गतं सोनियाविहारतः जगतपुरपर्यन्तं प्रायः चतुर्किलोमीटरपरिमिते क्षेत्रे मनोरञ्जकक्रूजयानसेवाः नौकापरिवहनसेवाश्च विकसिताः सन्ति। तदतिरिक्तं सोनियाविहारे पूर्णविकसितः तटवर्तीप्रस्थानागमनकेन्द्रः स्थापितः अस्ति। अस्य उपक्रमस्य उद्देश्यम् हरितपरिवहनस्य, नगरीयपर्यटनस्य, जनसुविधानां च संवर्धनेन देहलीनगरस्य प्राकृतिकायाः सांस्कृतिकायाश्च धरोहरायाः नवीनां परिचितिं प्रदातुम् अस्ति।

वर्षाकाले नद्याः परिस्थितिं दृष्ट्वा प्रतिवर्षं जुलाईमासस्य प्रथमदिनात् सितम्बरमासस्य ३० दिनाङ्कपर्यन्तम् एषा सेवा स्थगिता भविष्यति। परियोजनायाः अन्तर्गतं यमुनानद्यां त्रिंशत् यात्रिणां क्षमतायुक्तम् एकं विद्युत्चालितं क्रूजयानं सञ्चालितम् अस्ति। एतादृशक्षमतायुक्तं द्वितीयं विद्युत्चालितं क्रूजयानं २०२७ तमस्य वर्षस्य फरवरी-मार्चमासयोः आरभ्यते। अस्य माध्यमेन पर्यटकाः यमुनायाः प्राकृतिकपरिवेशस्य, नदीतीरस्य हरितिम्नः, देहलीनगरस्य च भिन्नस्वरूपस्य अनुभवं कर्तुं शक्ष्यन्ति। विद्युत्चालितक्रूजयानस्य माध्यमेन पर्यावरणानुकूलपरिवहनस्य स्थायिनदीपर्यटनस्य च प्रोत्साहनं भविष्यति।

पर्यटकाणां सुविधायै सोनियाविहारे तटवर्तीप्रस्थानागमनकेन्द्रं विकसितम् अस्ति। अत्र यात्रिणाम् आरोहणाय अवतरणाय च द्वे उत्प्लवमानसेतुपट्टिके निर्मिते स्तः। तदतिरिक्तं टिकटविक्रयकेन्द्रम्, सुरक्षाकक्षः, शुल्काधारितं वाहनपार्किङ्गस्थानम्, भोजनालयः, प्रतीक्षालयः, वाणिज्यिकापणानि च उपलब्धानि सन्ति।

सोनियाविहारे विकसितायां परियोजनायां पर्यटकाणां परिवाराणां च कृते बालकानां क्रीडाक्षेत्रम्, विषयाधारितः सङ्गीतमयजलप्रपातः, भोजनालयः, वाणिज्यिकापणानि, मनोरञ्जनसुविधाश्च विकसिताः सन्ति। तदतिरिक्तं यमुनायाः प्राकृतिकपरिवेशस्य आनन्दानुभवाय पारिस्थितिकपदमार्गाः पदभ्रमणमार्गाश्च निर्मिताः सन्ति।

परियोजनायां विद्युत्चालितक्रूजयानस्य कृते विद्युत्प्रभारणकेन्द्रम्, महिलानां पुरुषाणां दिव्याङ्गजनानां च कृते पृथक् पृथक् शौचालयाः, मलजलशोधनसंयन्त्रम्, पेयजलाय च नलकूपस्य व्यवस्था कृता अस्ति। एताभिः सुविधाभिः सह यमुनातटे नौकाविहारस्य अन्येषां मनोरञ्जनात्मकक्रियाकलापानां च आनन्दानुभवाय सुव्यवस्थितं आकर्षकं च पर्यटनकेन्द्रं विकसितम् अस्ति।

अस्याः परियोजनायाः विकासः भारतीयान्तर्देशीयजलमार्गप्राधिकरणेन, देहलीविकासप्राधिकरणेन (डीडीए), देहलीजलमण्डलेन, सिञ्चन-बाढनियन्त्रणविभागेन, देहलीपर्यटनपरिवहनविकासनि

गमेन च परस्परसमन्वयेन कृतः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani