‘रामायण’-चलच्चित्रे रावणस्य भूमिकायाः निर्वहणाय यशेन ३३ किलोग्रामभारयुक्तं परिधानं धृतम्
मुम्बई, १० नवम्बरमासः (हि.स.)। नितेशतिवारी-महोदयस्य पौराणिक-चलच्चित्रे ‘रामायण’-मध्ये रावणस्य भूमिकायां कन्नड-अभिनेता यशः दर्शकानां पर्याप्तां प्रशंसाम् अवाप्नोति। चलच्चित्रे तस्य अभिनयेन सह तस्य वेशभूषा अपि चर्चायाः विषयः अभवत्। रावणस्य भूमिकां भ
यश- फोटो सोर्स एक्स


मुम्बई, १० नवम्बरमासः (हि.स.)। नितेशतिवारी-महोदयस्य पौराणिक-चलच्चित्रे ‘रामायण’-मध्ये रावणस्य भूमिकायां कन्नड-अभिनेता यशः दर्शकानां पर्याप्तां प्रशंसाम् अवाप्नोति। चलच्चित्रे तस्य अभिनयेन सह तस्य वेशभूषा अपि चर्चायाः विषयः अभवत्।

रावणस्य भूमिकां भव्यां प्रभावशालिनीं च कर्तुं यशेन अतिभारयुक्तं परिधानं धृतम् आसीत्। वेशभूषानिर्मात्री सानिया सरधरिया उद्घाटितवती यत् कतिपयेषु विशेषदृश्येषु यशस्य परिधानस्य भारः प्रायः ३३ किलोग्रामपर्यन्तम् अभवत्।

सानियया एकस्मिन् संवादे कथितं यत् अधिकांशपरिधानानां भारः आभूषणैः सह १६ तः २० किलोग्रामपर्यन्तम् आसीत्। तथापि लङ्कायाः रावणस्य च सम्बद्धानां कतिपयानां विशेषदृश्यानां कृते निर्मितानि परिधानानि अत्यधिकानि गुरूणि आसन्। एतेषु रावणस्य विवाहस्य तथा शूर्पणखायाः विवाहस्य च दृश्यसम्बद्धाः वेशभूषाः अपि अन्तर्भूताः आसन्। एतेषां विशेषपरिधानानां भारः प्रायः ३० तः ३३ किलोग्रामपर्यन्तम् आसीत्। तया सूचितं यत् यशस्य मुकुटस्य भारः अपि प्रायः १.८ किलोग्रामः आसीत्।

वेशभूषानिर्मात्र्याः अनुसारं मुकुटस्य निर्माणे धारणे च सर्वाधिकं चुनौती आसीत्, यतः शिरसि एतावद्भारं धर्तुं सरलम् नासीत्। एतदर्थं विविधाः प्रयोगाः कर्तव्याः अभवन्। दीर्घकालपर्यन्तं गुरुपरिधानं धृत्वा चलचित्रस्य चित्राङ्कनं कुर्वन्नपि यशः सहजतया तस्य निर्वहणम् अकरोत्। उल्लेखनीयम् अस्ति यत् चलचित्रे रणबीरकपूरः भगवत: रामस्य, साईपल्लवी मातु: सीतायाः तथा रविदुबे लक्ष्मणस्य भूमिकां निर्वहन्ति।

Hindusthan Samachar / Divya Ranjan