Enter your Email Address to subscribe to our newsletters



- केसरियवर्णीयं मुरेठं बद्ध्वा सहस्रशः यदुवंशिभिः शोभायात्रा निष्कासिता, नमोघाटस्थिते गोवर्धनधाम्नि भगवान् श्रीकृष्णं प्रति श्रद्धायाः महत् प्रकटीकरणम्, परमवीरचक्रविजेता कैप्टन् योगेन्द्रयादवेन शोभायात्रायाः शुभारम्भः।
वाराणसी,10 नवम्बरमासः (हि.स.)। दीपावलीपर्वणः अनन्तरं मङ्गलवासरे उत्तरप्रदेशस्य धर्मनगरी काश्यां गोवर्धनपूजायाः अवसरे श्रद्धायाः, परम्परायाः उल्लासस्य च अद्भुतः सङ्गमः दृष्टः। गोवर्धनपूजासमित्याः पक्षतः निष्कासितायां विशालायां भव्यायां पारम्परिकायां च शोभायात्रायां यदुवंशिसमाजस्य सहस्रशः बालकाः, युवानः वृद्धाश्च सम्मिलिताः। केसरियवर्णीयं सुदृढं मुरेठं (साफा) बद्ध्वा युवानां समूहः, गोपालबालानां स्वरूपं धृतवन्तः बालकाः, मनोहराणि दृश्यचित्राणि मनरीकलायाः (लट्ठबाजी) प्रदर्शनं च शोभायात्रायाः प्रमुखाकर्षणानि आसन्। गोवर्धनधारिणं भगवान् श्रीकृष्णं प्रति श्रद्धायाः भक्तेः च उत्साहः सम्पूर्णे मार्गे दृश्यते स्म।
शोभायात्रा लहुराबीरतः प्रारभ्य पिपलानीकटरा, कबीरचौरा, लोहटिया, मैदागिन, विश्वेश्वरगञ्ज, मछोदरी मुकीमगञ्जमार्गेण च खिड़कियाघाटस्थितं गोवर्धनधाम प्राप्तवती। शोभायात्रायाः शुभारम्भः चेतगञ्जस्थितस्य हथुआमार्केटस्य मुख्यद्वारे परमवीरचक्रविजेत्रा कैप्टन् योगेन्द्रयादवेन कृतः। अस्मात् पूर्वं नमोघाटस्थिते गोवर्धनधाम्नि प्रातःकालीनारत्याः अनन्तरं विधिवत् हवनपूजनं सम्पन्नम्। पूजनानुष्ठानं भालायादवेन, भोलायादवेन अभयस्वाभिमानिना च सम्पन्नम्।
शोभायात्रायां भगवान् श्रीकृष्णस्य बलरामस्य च जीवनाधारितं चरकुलानृत्यम्, श्रीकृष्णस्य बाललीलाः प्रदर्शयन्त्यः आकर्षकाः झाँक्यः तथा केदारनाथमन्दिरस्य भव्यं दृश्यचित्रं जनाकर्षणस्य केन्द्राणि आसन्। यदुवंशिभिः पारम्परिकायाः मनरीकलायाः (लट्ठबाजी) उत्कृष्टं प्रदर्शनं कृत्वा स्वकीयायाः सांस्कृतिकपरम्परायाः परिचयः प्रदत्तः। मार्गस्य उभयतः बहुसङ्ख्यकाः महिलाः, बालकाः अन्ये नागरिकाश्च शोभायात्रां द्रष्टुं समागताः। स्थाने स्थाने जनैः पुष्पवृष्टिं कृत्वा शोभायात्रायाः स्वागतं कृतम्। केसरियवर्णीयं मुरेठं बद्ध्वा युवानां उत्साहः अवलोकनीयः आसीत्। अपरतः वृद्धेषु भगवान् श्रीकृष्णं प्रति दृढश्रद्धायाः भक्तेः च भावः दृष्टः।
अस्मिन्नवसरे केषाञ्चन युवानां पक्षतः विशिष्टस्य राजनैतिकदलस्य समर्थनार्थं घोषाः कृताः, तदा वृद्धैः तान् निवारितम्। तैः उक्तं यत् एतत् कस्यापि राजनैतिकदलस्य आयोजनं नास्ति, अपितु सम्पूर्णसमाजस्य धार्मिकं सांस्कृतिकं च आयोजनम् अस्ति, यस्मिन् सर्वेषां राजनैतिकविचारधाराणां जनाः सम्मिलिताः भवन्ति।
शोभायात्रायाः नेतृत्वं समितेः अध्यक्षेण विनोद यादव गप्पू इत्यनेन महामन्त्रिणा जयप्रकाशयादवेन च कृतम्। अतिथीनां स्वागतं डॉ. शिवनाथयादवेन, अभियन्त्रा अशोकयादवेन, कैलाशयादवेन, अशोकयादवेन, सीतारामयादवेन राजेशअहीरेण च कृतम्। यात्रामार्गे व्यापारिभिः विभिन्नैः सामाजिकसङ्घटनैश्च स्थाने स्थाने स्वागतद्वाराणि निर्मितानि। श्रद्धालूनां कृते जलपानस्य व्यवस्था अपि कृता आसीत्। सुरक्षायाः दृष्ट्या पुलिसप्रशासनेन व्यापकव्यवस्था कृता आसीत्। अधिकारिणः पुलिसबलैः सह सम्पूर्णे मार्गे सज्जाः आसन्।
समाजस्य विशिष्टविभूतिभ्यः गोवर्धनश्रीसम्मानः प्रदत्तः
खिड़कियाघाटस्थितं गोवर्धनधाम प्राप्ते सति श्रद्धालुभिः गोवर्धनधारिणः भगवान् श्रीकृष्णस्य विधिवत् पूजनार्चनं कृतम्। अस्मिन्नवसरे गङ्गातटे निर्मिते भव्ये मञ्चे कलाकारैः भगवान् श्रीकृष्णस्य मनोहरलीलानां प्रस्तुतिः कृता, येन श्रद्धालवः भावविभोराः अभवन्। कार्यक्रमे समाजस्य विभिन्नक्षेत्रेषु उल्लेखनीययोगदानं प्रदत्तवत्यः विभूतयः ‘गोवर्धनश्रीसम्मानेन’ सम्मानिताः।
न्यायिकक्षेत्रे पूर्वन्यायाधीशः महेन्द्रसिंहयादवः, चिकित्साक्षेत्रे डॉ. कुमारभास्करः, क्रीडाक्षेत्रे शिखायादवः, योगशिक्षाक्षेत्रे प्रो. सम्बितभूषणः, विज्ञानानुसन्धानक्षेत्रे अमितयादवः तथा विधिक्षेत्रे देवीप्रसादयादवः सम्मानेन सम्मानिताः। कार्यक्रमस्य रूपरेखायाः घोषणां न्यासमण्डलस्य अध्यक्षः गोपालयादवः कृतवान्।
Hindusthan Samachar / Dheeraj Maithani