Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 11 नवंबरमासः (हि.स.)।
अखिलभारतीयविद्यार्थिपरिषदा (अभाविप) दिल्लीविश्वविद्यालयस्य रामानुजनमहाविद्यालयस्य एनएसयूआई इति छात्रसङ्घटनस्य उपाध्यक्षे अनसखाने छात्राभिः सह धनस्य अन्यसुविधानां च प्रलोभनं प्रदाय अनिवासिभारतीयपुरुषैः सह प्रेषयितुं सम्बद्धाः सन्देशाः प्रकाशं गताः। एतस्मिन् प्रकरणे राष्ट्रियान्वेषणाभिकरणेन (एनआईए) अन्वेषणं कारयितुं अभाविपया आग्रहः कृतः। अभाविपस्य आरोपः अस्ति यत् अनिवासिभारतीयैः प्रायोजितकार्यक्रमस्य नाम्ना छात्राभिः सह सम्पर्कः क्रियते स्म तथा च तासां शारीरिकसंरचनायाः आधारेण चयनस्य चर्चा अपि सन्देशेषु प्रकाशिता अस्ति। अस्मिन् प्रकरणे महाविद्यालयप्रशासनेन अनसखानः निलम्बितः अस्ति।
अभाविपया कथितं यत् छात्राभ्यः आर्थिकप्रलोभनं प्रदाय एतादृशीषु गतिविधिषु सम्मिलितुं प्रेरणस्य प्रकरणं सम्भावितमानवव्यापारस्य तथा देहव्यापारादीनां सङ्गठितापराधानां जालस्य आशङ्कां जनयति। सङ्घटनेन सम्पूर्णप्रकरणस्य व्यापकान्वेषणं कारयितुं आग्रहः कृतः, येन अनिवासिभारतीयैः सह सम्पर्कस्य, आर्थिकव्यवहाराणां तथा सम्भावितान्तरराष्ट्रीयजालस्य भूमिकायाः विषये तथ्यं ज्ञातुं शक्येत।
अभाविपया इदमपि दावीकृतं यत् गतासे एनएसयूआईसम्बद्धैः व्यक्तिभिः एकस्य कार्यक्रमस्य कृते युवकान् नीत्वा गमनसम्बद्धा एतादृशी एव सन्देशवार्ता प्रकाशं गता आसीत्। सङ्घटनेन निरन्तरं प्रकाशमानानाम् एतादृशानां प्रकरणानां विषये प्रश्नान् उत्थाप्य कथितं यत् किं एनएसयूआई इत्यस्य कार्यक्रमाणां पृष्ठतः आर्थिकप्रलोभनानि सन्दिग्धजालानि च कार्यं कुर्वन्ति? अभाविपया वर्षे २०१८ तमे एनएसयूआई इत्यस्य तत्कालीनराष्ट्रियाध्यक्षस्य फिरोजखानस्य विरुद्धं सङ्घटनस्य एका महिला पदाधिकारिणी यौनशोषणस्य आरोपान् आरोपितवती इति विषयः अपि उल्लिखितः। अभाविपया एतासां घटनानां सम्बन्धः कांग्रेसदलस्य तस्य छात्रसङ्घटनस्य च महिलासुरक्षासम्बद्धैः दावैः सह संयोज्य प्रश्नाः उत्थापिताः।
अभाविपस्य राष्ट्रियमहामन्त्रिणा डॉ. वीरेन्द्रसिंहसोलङ्किना कथितं यत् महिलाधिकाराणां समानतायाश्च विषये चर्चा कुर्वती कांग्रेसपक्षः स्वस्य छात्रसङ्घटने महिलानां गरिमायाः सुरक्षायाश्च सुनिश्चितीकरणस्य उत्तरदायित्वं स्वीकरोतु। तेन आरोपितं यत् अस्मिन् प्रकरणे एनएसयूआईपक्षतः सम्बन्धितपदाधिकारिणं पदात् निष्कासितमिति दावेन पूर्वदिनाङ्कितं पत्रं प्रसारितम् अस्ति, यदा तु सम्बन्धितव्यक्तेः सामाजिकमाध्यमस्थितौ व्यक्तिगतकारणैः स्वेच्छया त्यागपत्रं दत्तमिति कथितम् अस्ति।
सोलङ्किना कथितं यत् पदाधिकारिणः निष्कासनस्य स्वेच्छया त्यागपत्रदानस्य च दावयोः विरोधाभासः अस्ति। तेन कांग्रेसदलात् अस्मिन् प्रकरणे उत्तरदायित्वं निश्चितुं आग्रहः कृतः। अभाविपया कथितं यत् सम्पूर्णप्रकरणस्य राष्ट्रियान्वेषणाभिकरणेन अन्वेषणं कारयितव्यम्, येन सम्भावितमानवव्यापारस्य, देहव्यापारस्य तथा अनिवासिभारतीयसम्बद्धजालस्य सर्वेषां पक्षाणाम् अन्वेषणं भवेत् तथा दोषिणां विरुद्धं कठोरकार्यवाही सुनिश्चिता भवेत्।
---------------
Hindusthan Samachar / Dheeraj Maithani