Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 11 नवंबरमासः (हि.स.)।
असमस्य मुख्यमन्त्रिणा डॉ. हिमन्तबिस्वसरमा इत्यनेन बुधवासरे भ्रातृद्वितीयायाः पावनावसरे राज्यस्य सर्वेभ्यः भ्रातृभगिनीभ्यः असमवासिभ्यश्च हार्दिकशुभकामनाः प्रदत्ताः।
मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशितेन सन्देशेन कथितं यत् अस्माकं सनातनसंस्कृतेः अयं पवित्रः उत्सवः भ्रातृभगिन्योः मध्ये निःस्वार्थप्रेम्णः, विश्वासस्य सुरक्षायाश्च बन्धनं अधिकं सुदृढं करोति। तेन उक्तं यत् भगिनीभिः स्वभ्रातॄणां उत्तमस्वास्थ्यस्य दीर्घायुषश्च कामनया क्रियमाणाः प्रार्थनाः अस्माकं सामाजिकजीवने पारिवारिकमूल्यानां महत्त्वं प्रतिपादयन्ति।
मुख्यमन्त्रिणा डॉ. हिमन्तबिस्वशर्मणा कामना कृता यत् भ्रातृभगिन्योः सम्बन्धस्य अयं विशिष्टः बन्धः प्रत्येकस्मिन् परिवारे सुखं शान्तिं समृद्धिं च आनयतु। तेन सर्वेभ्यः भ्रातृद्वितीयापर्वणः हार्दिकशुभकामनाः प्रदत्ताः।
------------
Hindusthan Samachar / Dheeraj Maithani