Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 11 नवंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य (भाजपा) वरिष्ठनेता राज्यसभासांसदश्च डॉ. सुधांशुत्रिवेदी विपक्षस्य नेता राहुलगान्धिना भारतीयार्थव्यवस्थां प्रति कृतायाः टिप्पण्याः तीव्रं प्रत्युत्तरं दत्तवान्। तेन उक्तं यत् एकतः भारतं विकासस्य नवीनानि शिखराणि आरोहति, अपरतः विपक्षस्य राजनीतिः निरन्तरं नूतनान् निम्नस्तरान् प्राप्नोति इति दृश्यते।
बुधवासरे भाजपाकेन्द्रीयकार्यालये आयोजितायां पत्रकारवार्तायां डॉ. त्रिवेदी उक्तवान् यत् राहुलगान्धिना भारतीयार्थव्यवस्था ‘शो कॉल्ड डेड इकोनॉमी’ (कथिता मृतार्थव्यवस्था) इति उक्ता आसीत्, किन्तु एषैव अर्थव्यवस्था धनत्रयोदश्याः पर्वणि सुवर्णरजतक्रयणस्य विषये स्वस्य सामर्थ्यं प्रदर्शितवती। तेन दावीकृतं यत् धनत्रयोदश्यां भारते एकस्मिन् दिने यावती सुवर्णरजतयोः क्रयणं जातम्, तावती क्रयणं सम्पूर्णे यूरोपे त्रिषु मासेषु भवति। एतत् भारतस्य आर्थिकसामर्थ्यस्य प्रमाणम् अस्ति। एतेन विपक्षीयनेतॄणां मनसि भारतस्य परम्पराणां धर्मस्य संस्कृतेश्च प्रति कियती अनादरभावना नकारात्मकता च वर्तते इत्यपि स्पष्टं भवति। भारतं निरन्तरं प्रगतिपथे अग्रे गच्छति, किन्तु विपक्षः देशस्य उपलब्धीनां स्वीकरणस्य स्थाने निराधारटिप्पणीः कर्तुं प्रवृत्तः अस्ति।
कांग्रेसाध्यक्षस्य मल्लिकार्जुनखड्गे इत्यस्य दीपावलीं ‘हर्षस्य ईद्’ इति कथनस्य प्रतिक्रियां ददता तेन उक्तं यत् एतत् अत्यन्तम् आश्चर्यजनकम् अस्ति। यतः खड्गेमहोदयः यस्मात् कर्नाटकराज्यात् आगच्छति, तत्र कन्नडभाषायां उत्सवस्य कृते ‘उत्सव’ अथवा ‘हब्बा’ इति शब्दस्य प्रयोगः भवति। तर्हि ‘ईद्’ इति शब्दः कुत्रतः आगतः?
तेन उक्तं यत् एषा घटना भारतीयधर्मस्य संस्कृतेश्च अपमानः कियत्पर्यन्तं कर्तुं शक्यते इति दर्शयति। विपक्षस्य विशेषतः कांग्रेसदलस्य आचरणम् एतामेव मानसिकतां प्रतिबिम्बयति। डॉ. त्रिवेदी आरोपितवान् यत् कांग्रेसनेतारः भारतीयपरम्पराणां सांस्कृतिकपरिचयस्य च प्रति सम्मानं प्रदर्शयितुं स्थाने एतादृशीः टिप्पण्याः कुर्वन्ति, याभिः विवादाः उत्पद्यन्ते।
समाजवादीपक्षेण दिसम्बरमासस्य १२ दिनाङ्के अयोध्यायां शक्तिप्रदर्शनस्य घोषणायाः विषये अपि प्रतिक्रियां ददता डॉ. सुधांशुः उक्तवान् यत् समाजवादीपक्षः एतत् स्वस्य शक्तिप्रदर्शनम् इति कथयति, किन्तु वस्तुतः एतत् भारतीयजनतापक्षस्य विचारधारायाः भारतीयसमाजस्य एकतायाश्च सामर्थ्यस्य प्रदर्शनम् अस्ति। तेन उक्तं यत् विपक्षीयदलानि अद्य यथा अयोध्यां गन्तुं कथयन्ति, तस्य पृष्ठे परिस्थितिजन्यः दबावः अस्ति। तेषां समीपे एतदतिरिक्तः अन्यः विकल्पः न अवशिष्टः। भारतीयसमाजस्य एकतायाः शक्तिः अधुना दृश्यते इति तेन दावीकृतम्।
डॉ. त्रिवेदी उक्तवान् यत् यदि आगामी निर्वाचनकाले भारतीयसमाजः एवमेव अधिकाम् एकतां प्रदर्शयति, तर्हि अद्य श्रीरामललाविराजमानस्य आशीर्वादं प्राप्तुं समागताः जनाः, येषां तेन ‘निर्वाचनकालिकहिन्दवः’ इति संज्ञा प्रदत्ता, ते आगामीनिर्वाचनपर्यन्तं स्वयमेव ‘जयश्रीराम’ इति उद्घोषं कुर्वन्तः
दृश्येरन्।
---------------
Hindusthan Samachar / Dheeraj Maithani