भागलपुरस्य विपणनेषु छठपूजायाः वर्धिता शोभा, सूपनारिकेलविक्रयणापणेषु श्रद्धालूनां महान् सम्मर्दः।
भागलपुरम्, 11 नवंबरमासः (हि.स.)। रेशमपुर्यां भागलपुरे लोकश्रद्धायाः सूर्योपासनायाश्च महापर्वणः छठपूजायाः कृते सर्वत्र उत्साहपूर्णं वातावरणं वर्तते। स्नानभोजनव्रतेन खरनाव्रतेन च प्रारभ्यमाणस्य अस्य चतुर्दिवसीयानुष्ठानस्य कृते नगरस्य प्रमुखविपणीनां
सूप और डलिया खरीदते श्रद्धालु


भागलपुरम्, 11 नवंबरमासः (हि.स.)।

रेशमपुर्यां भागलपुरे लोकश्रद्धायाः सूर्योपासनायाश्च महापर्वणः छठपूजायाः कृते सर्वत्र उत्साहपूर्णं वातावरणं वर्तते। स्नानभोजनव्रतेन खरनाव्रतेन च प्रारभ्यमाणस्य अस्य चतुर्दिवसीयानुष्ठानस्य कृते नगरस्य प्रमुखविपणीनां शोभा दर्शनीया अस्ति।

नगरस्य वेरायटीचौकः, लोहियासेतुः, सूजागञ्जः तथा सुलतानगञ्जविपण्यां पूजासामग्रीक्रयणार्थं श्रद्धालूनां महती सम्मर्दः दृश्यते। अस्मिन् वर्षे प्रमुखपूजासामग्रीणां मूल्यानि गतवर्षस्य तुलनायां किञ्चित् वर्धितानि सन्ति, तथापि व्रतिनां श्रद्धालूनां च उत्साहे कापि न्यूनता न दृश्यते। विपण्याम् दक्षिणभारतीयस्य केरलराज्यात् आनीतानां जलयुक्तनारिकेलानां स्थानीयशिल्पिभिः निर्मितानां वंशसूपानां च सर्वाधिकमागणी अस्ति।

विपण्याः समीक्षानुसारं सम्प्रति पूजासामग्रीणां प्रमुखमूल्यानि निम्नप्रकारेण सन्ति। वंशसूपस्य मूल्यं प्रतियुगलं १८० रूप्यकात् २०० रूप्यकाणि यावत्, डलिया अथवा डाला (वंशनिर्मिता पिटारी) प्रतिखण्डं २०० रूप्यकात् २५० रूप्यकाणि यावत्, केरलस्य नारिकेलं प्रतियुगलं १२० रूप्यकात् १५० रूप्यकाणि यावत्, हाजीपुरस्य कदलीफलं प्रतिदर्जनं ४० रूप्यकात् ६० रूप्यकाणि यावत् तथा सिंघाडाफलं अन्यानि च फलानि प्रतिकिलोग्रामं ६० रूप्यकात् ८० रूप्यकाणि यावत् विक्रीयन्ते।

लोहियासेतोः समीपे सूपडलियाविक्रेतारः अवदन् यत् भागलपुरस्य स्थानीयशिल्पिभिः निर्मितानां वंशसूपानां परिष्करणं बुनावटशैली च अत्यन्तं उत्कृष्टा भवति। अतः एतेषां सूपानां मागणी बिहारस्य अन्यजनपदेषु तथा झारखण्डस्य गोड्डा-दुमकाप्रमुखेषु सीमावर्तिक्षेत्रेषु अपि पर्याप्ता वर्तते। अस्मिन् वर्षे समयात् पूर्वमेव स्थूलविक्रयादेशानां प्राप्तेः कारणात् स्थानीयविक्रेतृभिः पर्याप्तः सामग्रीसञ्चयः आनीतः आसीत्। एतदतिरिक्तं स्थानीयोत्पादानां प्रोत्साहनार्थं लोकल् फॉर वोकल् इति अभियानस्य अन्तर्गतं मञ्जूषाकलया अलङ्कृतानि विशेषाणि पारम्परिकसूपानि अपि अस्मिन् वर्षे क्रेतॄणाम् आकर्षणस्य प्रमुखं केन्द्रं सन्ति।

विपणीषु सहसा वर्धितस्य जनसम्मर्दस्य कारणात् नगरस्य प्रमुखमार्गेषु सायंकाले तीव्रयानावरोधस्य स्थितिः दृश्यते। पदमार्गेषु सज्जितानाम् अस्थायिविक्रयणापणानां मार्गेषु च अव्यवस्थितरूपेण स्थापितानां वाहनानां कारणात् वेरायटीचौकस्य लोहियासेतोः च समीपे वाहनानि मन्दगतिना चलन्ति स्म। तथापि यातायातावरोधस्य स्थितावपि विपण्यां सर्वत्र गुञ्जमानैः छठीमातुः पारम्परिकगीतैः सम्पूर्णं वातावरणं भक्तिमयं उत्सवपूर्णं च जातम्।

---------------

Hindusthan Samachar / Dheeraj Maithani