Enter your Email Address to subscribe to our newsletters

- नवदिल्लीक्षेत्रस्य प्रमुखरेलस्थानकेभ्यः बुधवासरे ३१, गुरुवासरे च २९ विशेषरेलयानानि प्रचालिष्यन्ते।
नवदिल्ली, ११ नवम्बरमासः (हि.स.)। छठमहापर्वणि स्वगृहं गच्छतां यात्रिणां वर्धमानं सम्मर्दं दृष्ट्वा उत्तररेलविभागेन दिल्लीक्षेत्रस्य प्रमुखरेलस्थानकेषु व्यापकाः व्यवस्थाः कृताः सन्ति। यात्रिणां सुविधार्थं विशेषरेलयानानां सञ्चालनं वर्धितम् अस्ति।
बुधवासरे दिल्लीक्षेत्रात् कुलानि ३१ विशेषरेलयानानि प्रचालिष्यन्ति, गुरुवासरे तु २९ विशेषरेलयानानां सञ्चालनस्य कार्यक्रमः निर्धारितः अस्ति। एतदतिरिक्तं यात्रिणां सम्मर्दं मागं च दृष्ट्वा अल्पसूचनायाम् अनारक्षितविशेषरेलयानानामपि सञ्चालनं करिष्यते।
उत्तररेलविभागानुसारं बुधवासरे नवदिल्लीरेलस्थानकात् १०, आनन्दविहारटर्मिनलतः अष्टौ, शकूरबस्तीस्थानकात् सप्त, हजरतनिजामुद्दीनस्थानकात् चत्वारि, दिल्लीजङ्क्शनतः एकं तथा रोहतकतः एकं विशेषरेलयानं प्रस्थास्यति।
एवमेव १२ नवम्बरदिनाङ्के दिल्लीक्षेत्रात् प्रचाल्यमानेषु २९ विशेषरेलयानेषु नवदिल्लीस्थानकात् सप्त, आनन्दविहारटर्मिनलतः सप्त, शकूरबस्तीस्थानकात् पञ्च, हजरतनिजामुद्दीनस्थानकात् पञ्च, दिल्लीजङ्क्शनतः त्रीणि, रोहतकत एकं तथा दिल्लीसरायरोहिल्लास्थानकात् एकं रेलयानं सम्मिलितम् अस्ति।
रेलविभागेन सूचितं यत् मङ्गलवासरे १० नवम्बरदिनाङ्के अपि प्रमुखरेलस्थानकेषु यात्रिणां सम्मर्दस्य निरीक्षणानन्तरं पूर्वनिर्धारितानां २७ विशेषरेलयानानाम् अतिरिक्तं अल्पसूचनायां त्रीणि अनारक्षितविशेषरेलयानानि प्रचालितानि।
उत्तररेलविभागस्य अधिकारिणः बुधवासरे अपि दिल्लीक्षेत्रस्य प्रमुखरेलस्थानकेषु यात्रिणाम् आवागमनस्य सम्मर्दस्य च निरन्तरं निरीक्षणं कुर्वन्ति। आवश्यकतानुसारम् अतिरिक्तविशेषरेलयानानां सञ्चालनस्य व्यवस्था अपि करिष्यते। एतदर्थं मण्डलरेलप्रबन्धकः, अपरमण्डलरेलप्रबन्धकः तथा रेलविभागस्य मुख्यालयस्य मण्डलस्य च वरिष्ठाधिकारिणः रेलस्थानकेषु प्राप्य व्यवस्थानां सम्मर्दस्य च स्थितेः निरीक्षणं कुर्वन्ति।
Hindusthan Samachar / Dheeraj Maithani