प्रधानमन्त्रिणा मोदिना सह अनेकेभिः नेतृभिः भ्रातृद्वितीयायाः शुभकामनाः प्रदत्ताः।
नवदिल्ली, 11 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना, लोकसभाध्यक्षेण ओमबिड्लामहोदयेन, केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहमहोदयेन तथा केन्द्रीयमार्गपरिवहनराजमार्गमन्त्रिणा नितिनगडकरीमहोदयेन भ्रातृद्वितीयायाः पावनावसरे देशवा
भाई दूज (प्रतीकात्मक चित्र)।


नवदिल्ली, 11 नवंबरमासः (हि.स.)।

प्रधानमन्त्रिणा नरेन्द्रमोदिना, लोकसभाध्यक्षेण ओमबिड्लामहोदयेन, केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहमहोदयेन तथा केन्द्रीयमार्गपरिवहनराजमार्गमन्त्रिणा नितिनगडकरीमहोदयेन भ्रातृद्वितीयायाः पावनावसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः। सर्वेषां सुखसमृद्ध्योः कल्याणस्य च कामना कृता।

प्रधानमन्त्रिणा नरेन्द्रमोदिना बुधवासरे एक्स इति सामाजिकमाध्यमे सन्देशं प्रकाश्य देशवासिभ्यः भ्रातृद्वितीयायाः शुभकामनाः प्रदत्ताः। तेन उक्तं यत् अयं पावनः पर्वः भ्रातृभगिन्योः स्नेहपूर्णस्य प्रगाढस्य च सम्बन्धस्य माधुर्यस्य आत्मीयतायाश्च प्रतीकः अस्ति। अस्मिन् शुभावसरे तेन सर्वेषां जीवने प्रसन्नतायाः समृद्धेश्च कामना कृता।

लोकसभाध्यक्षेण ओमबिड्लामहोदयेन भ्रातृद्वितीया भ्रातृभगिन्योः प्रेम्णः विश्वासस्य अमूल्यसम्बन्धस्य च समर्पितः पर्वः इति कथयित्वा शुभकामनाः प्रदत्ताः। तेन उक्तं यत् अयं उत्सवः पारिवारिकसम्बन्धानाम् आत्मीयतायाः परस्परं स्नेहस्य सम्मानस्य उत्तरदायित्वभावनायाश्च स्मरणं कारयति। तेन ईश्वरं प्रार्थितं यत् प्रत्येकं भ्रातृभगिन्योः सम्बन्धः प्रेम्णा विश्वासेन च सदैव सुदृढः तिष्ठेत् तथा च तेषां जीवने सुखं स्वास्थ्यं प्रसन्नता समृद्धिश्च निरन्तरं भवेत्।

केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहमहोदयेन अपि समस्तदेशवासिभ्यः भ्रातृद्वितीयायाः शुभकामनाः प्रदत्ताः। तेन उक्तं यत् भ्रातृभगिन्योः पवित्रस्नेहस्य अयं पर्वः सर्वेषां जीवने सुखानि हर्षोल्लासं च आनयतु।

केन्द्रीयमार्गपरिवहनराजमार्गमन्त्रिणा नितिनगडकरीमहोदयेन भ्रातृद्वितीया भ्रातृभगिन्योः पवित्रबन्धनस्य प्रेम्णश्च प्रतीकः इति वर्णयित्वा देशवासिभ्यः अस्य पावनपर्वणः शुभकामनाः प्रदत्ताः।

---------------

Hindusthan Samachar / Dheeraj Maithani